________________
घडविंशतितमपरिवर्तः ।
चिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा।
अपरित्यक्तमार्था निरूढिरभिधीयते ॥३॥ इति। निरूदौवं निरूढस्य स्थिरोभावलक्षणाञ्चित्तसंस्थितिं प्रतिपादयितुं प्रश्नयन्नाह। यस्तेषां भगवन्नित्यादि। योऽनुमोदते कियत्स पुण्यं प्रसवतौति सम्बन्धः। प्रथमयानसंप्रस्थितानां चर्याप्रतिपन्नानामनिवर्तनौयानामेकजातिबद्धानामित्यनेन यथासम्भवं पूर्वोक्तचतुर्विकल्पप्रतिपक्षयोदर्शनभावनामार्गयोश्चतुर्विधाधिगन्तव्यपदेशाचातुविध्यं ख्यापितमित्येके। लिङ्गविवृद्धिनिरूढिचित्तसंस्थितिस्वरूपावबोधभेदादित्यन्ये। अधिमुक्तिचर्याभूमौ प्रथमयानसंपस्थिताः। प्रमुदितादिसप्तभूमिषु चर्याप्रतिपन्नाः। अचलादिभूमित्रितयेऽविनिवर्तनौयाः। दशम्यां भूमावेकजातिप्रतिबद्धा इत्यपरे। चित्तसंस्थितिमावेदयन् प्रश्नपरिहारार्थमाह। स्यात् खलु पुनरित्यादि। पलायेणेति । पलप्रमाणेन। एतदक्त। सम्भवत्प्रमाणस्य वस्तुनो योगिभिरियत्तया पलप्रमाणेन परिमाणं प्रामातुं शक्यत इति न्यायाच्चतुर्कीपादित्रिसाहसलोकधातुप्रामाणं गृह्यते। न त्वनुमोदनापुण्यप्रमाणमित्यर्थान्तरव्याजेन प्रमाणातिक्रान्तपुण्यस्वरूपा समाधिलक्षणा चित्तसंस्थितिः कथितेति। तथा चोक्तम्।
चतुर्कीपकसाहस्रदिविसाहस्रकोपमाः । कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः॥४॥ इति एतानि च लिङ्गादौनि यथाक्रममूष्मादिचतुर्निर्वेधभागीयस्वरूपाणि मूर्धाभिसमये वेदितव्यानि ।