________________
व्यभिसमयालङ्कारालोकः ।
विestवं वर्धितस्य मूर्धाभिसमयस्य सात्मौभावगमनपर्यन्तलक्षणां निरूढिं वक्तुं प्रसंशयन्नाह । चरन्नेव तावदित्यादि (p. 134, 2) । स्पृहणीयास्त इति । अनेन मूर्धाभिसमयलाभिनां दुर्लभतां कथयति । संजातप्रसादातिशयत्वादिष्टाशंसनां कुर्वन्नधुना निरूढिमावेदयन्नाह । यैर्बोधिसत्त्वयानि कैरित्यादि । उद्यमानानिति प्रेर्यमा - णान्। सर्वदोषवैषम्याभावान्समे पारिमे तौरे निर्वाणे बुद्धत्व इति यावत् । स्वपरोभयार्थसम्पत्सम्पादकत्वेन यथा क्रममभीप्सिताः परिचिन्तिताः परिगृहीता इति केचित् । त्रिसर्वज्ञता निष्पादकत्वेनेत्यन्ये । बुद्धधर्माणामित्युपदेशपदं सर्वज्ञताप्रति संयुक्तधर्माणां स्वयम्भूधर्माणामसंहार्यधर्माणामिति । सर्वाकारज्ञतादित्रिसर्वज्ञताभेदेन निर्दिष्टम् । तदेवं त्रिसर्वज्ञताधर्माणामनुत्तरा परिपूरिः कथिता स्यात् । सा चापरित्यक्तसत्त्वार्थनिरूढिरित्यर्थः । न मे भगवन्नित्यादि । महाकरुणया समन्वागता इति । एवम्भूताधिगमावस्थायामपि निर्वाणपातपरिहारार्थं महाकरुणासंमुखकरणात् सत्त्वावतारणादिचित्तोत्पादाच्च महाकरुया युक्ताः । तथैव तत्कस्य हेतोरित्याशङ्क्याह । तया महाकरुणयेत्यादि (p. 435, 5) । दर्शनभावनाविशेषा शैक्षमार्गाधिगमभेदाद्यथाक्रमं वयं तौणी इत्यादि पदचतुष्टयम् । एतदुक्तम् । सम्यगुपायकौशलबलेनैवं निर्विकल्पाधिगमावस्थायां महाकरुणादिसम्मुखीकरणभावेनापरित्यक्तसत्त्वार्थलक्षणा यथोक्तसर्वाकार ज्ञतादित्रिसर्वज्ञताधर्माणा - मनुत्तरा परिपूरिनिरूढिरिति । तथा चोक्तम् ।
४७३