________________
४७२
पञ्चविंशतितमपरिवर्तः । दापष्टिदृष्टयो ब्रह्मजालपरिपृच्छादौ द्रष्टव्याः। ग्रन्थप्राचुर्यान्न लिख्यन्ते। यथोक्तविधिमेव स्पष्टयन्नाह। तद्यथापि नाम सुभूते पुरुषस्येत्यादि। पञ्चदशसर्वसम्यत्पतिलम्भार्थविड्यर्थमाह। तस्मात्तर्हि सुभूते बोधिसत्त्वेत्यादि। तथैव तत्कस्य हेतोरित्याशयाह। पुण्याग्रत्वादिति। अमुमेवा) विस्तारयितुं प्रश्नयन्नाह। तत्किं मन्यस इत्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्याह। एवं महार्थिका होत्यादि। तत्र दर्शनादिमार्गचतुष्टयाधिगमादनुत्तरतां गन्तुकामेनेत्यादि पदचतुष्टयम्। धर्मसम्भोगनिर्माणकायत्रयप्रतिलम्भाय बुद्धविक्रौडितमित्यादिपदत्रयं वाच्यम् । सर्वसम्पत्प्राप्तौ श्रावकोऽपि स्यादित्याह। किं पुनरित्यादि। अन्यार्थतयाभ्यसनानव श्रावक इत्याह। श्रावकसम्पत्तिरपौत्यादि। षोडशसम्यक्सम्बोध्यासन्नोभावस्वभाववियर्थमाह। एवं शिक्षमाणः सुभूते बोधिसत्त्वो महासत्त्व इत्यादि (p. 433, 3)। तत्राप्यभिनिवेशो बन्धनमित्याह। सचेत्पुनरित्यादि। न चरतौति भावोपलम्भविपर्यासादिति भावः। अनभिनिवेशस्तत्त्वमित्याह। अथ तामपौत्यादि । यथोक्ता एव विदृवयो ग्राह्याः। तथा चोक्तम् ।
जम्बुद्दौपजनेयत्ताबुद्ध पूजाशुभादिकाम् । उपमां बहुधा कृत्वा विद्धिः षोडशात्मिका ॥२॥ इति
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां
शिक्षापरिवर्तो नाम पञ्चविंशतितमः ॥