________________
अभिसमयालङ्कारालोकः ।
४७१
वैरूप्यादिकृताङ्गः। तथैव तत्कस्य हेतोरित्याशङ्याह । अस्ति हि तस्येत्यादि (p. 427. 12) प्रकृतिपरिशुद्धित्वेन बलादिविशुड्याधिगमो नोपपद्यत इत्याह । यदा भगवनित्यादि (p. 428, 3) संत्यधिगमादाह। एवमेतदित्यादि। पूर्ववत् तत्कस्य हेतोरित्याशयाह। सर्वधर्मा होत्यादि। एतदक्तं प्रकृतिपरिशुद्धित्वेऽपि सर्वधर्माणां स्वभावशुद्धधर्मापरिज्ञानवतां सत्त्वानां तथाभूतज्ञानोत्पादनार्थ मायोपमधर्मभावनया मंसौदनत्वेन मंरत्या बलादिपरिशुद्धिं प्राप्नोतौति। दशमबुद्दगोत्रीभवनलक्षणविद्ध्यर्थमाह । तद्यथापि सुभूते ऽल्पकास्ते महापृथिव्यामित्यादि। क्षारप्राचुर्यादूषराः । रुक्षत्वादुज्जङ्गलाः। अल्पकास्ते बोधिसत्त्वा इत्यनेन (p. 4219, ) बद्धगोत्राणामूर्ध्वाभिगमनसमये वैवृद्धिलाभयोग्यानामल्पीयस्त्वं ज्ञापितं स्यात् । एकादशमबद्धत्वफलप्राप्तिनिमित्तात्मकविड्यथं मृदमध्याधिमात्रदृष्टान्तभेदेन हारकत्रयमाह । पुनरपरं तद्यथापि नामेत्यादि। प्रज्ञापारमितामार्गमिति। तथागतप्राप्तिनिमित्तामेकदां विद्धिमित्यर्थः। द्वादशपारमिताविपक्षचित्तानुत्पादस्वभावविदर्थमाह । एवं हि सुभूते प्रज्ञापारमितायामित्यादि (p 430, 21)। तब कल्पितपरतन्त्रपरिनिष्यन्नवस्त्वभिनिवेशेन यथाक्रमं मंगृहीताः परिगृहीता उद्हौताः। विपर्यासरहितत्वेनावबोधादनुगताः । चतुर्दशसर्वपारमितासंग्रहज्ञानलक्षणविद्ध्यर्थमाह। तद्यथापि नाम सुभूते सत्कायदृष्टावित्यादि (p. 431, 2) ।