________________
४७.
पञ्चविंशतितमपरिवर्तः।
नवमोपायकौशलपरिशुद्धशिक्षास्वरूपविद्ध्यर्थं प्रश्नयनाह । क्व पुनरित्यादि (p. 425, 2)। क्षयादौ शिक्षामाणो बुद्धत्वे शिक्षत इत्यावेदयन्नाह। सचेदित्यादि। तथतैव व्यात्तिभेदाद्यथा क्षयानुत्पादादिभिर्व्यपदिश्यते तथा व्याख्यातम् । कथमन्यत्र शिक्षायामन्यत्र शिक्षा विधीयत इति पृच्छयन्नाह । किङ्कारणमित्यादि। यत्सुभूत इत्यादिना। तहचनमनूद्य परिप्रश्नेन परिहरन्नाह । तत् किं मन्यस इत्यादि। तथतेति सर्वज्ञताबुद्धत्वमितियावत् । तथैव तत्कस्य हेतोरित्याशङ्याह। अक्षयो हि भगवन् क्षय इति। क्षौयन्तेऽस्मिन् सर्वविकल्या इति बुद्धत्वं क्षयो धर्मधातुर्विनाशरहितत्वादक्षय इति । तादात्म्यसम्बन्धेन क्षयादिस्वभावा मर्वज्ञतेत्यर्थः। उत्पद्यत इत्याद्यनुत्पादादिविपर्ययेनावगन्तव्यम्। परिशुद्धशिक्षत्वेन प्रशंसार्थमाह। तस्मात्तीत्यादि। पूर्ववत्कस्य हेतोरित्याशङ्कयाह । सर्वमत्त्वसा' दौत्यादि (p 426, 10)। तत्र पक्षिघाटकाः पा
नायकारिणो निषादाः। कैवर्ताः टनादौरभ्रिकाः। चक्षःश्रोत्रविज्ञाना
एकाक्षिवैकल्यात्काणः। हस्तादिच्छेदारष्टत्वात् कुजः। कुर्परोपरिहस्वपर्वत्वात्कुणिः । पल्लङ्गः। स्खलङ्गतित्वात् खंजः। सहसा । क्वचिज्जड्ड इति पाठस्तत्राप्ययमेवार्थ इत्युच्चार्यवचनालोलः। गुरुलकारउच्चैःश्रवणात्कल्लः। हस्तपादान्यूनातिरेकाङ्गत्वाद्विकलाङ्गः।