________________
४६४
द्वाविंशतितमपरिवर्तः। इत्यादिपदवयं दैशिकत्वादित्यपरे। प्रकारान्तरेणापि पुण्याभिभवत्वं वक्तुमाह। कथञ्चेत्यादि। बध्यगतानिवेति । मरणार्हानिव। क्षणांश्च विराजयत इति (p. 403, 4) पापानुष्ठानेन मनुष्यादिभावान्नाशयतः। दायकानामिति। समादायकानां। दानपतौनामिति । साक्षादातृणाम् । दक्षिणां विशोधयन्तौति सम्यक् फलवतौं कुर्वन्तीत्यर्थः। अनेन मनसिकारेणेति (p. 404, 3)। सत्त्वानां मार्गापदेशादिस्वभावेन। तथैव तत्कस्य हेतोरित्याशङ्याह। यो ह्येनानित्यादि। स एवेति । महोपायकौशलाया मातुरालम्बने स एव सत्त्वोपकारमनस्कारः। यथाऽयमिति मैयादिस्वभावो मन परः। क्षपयेदित्यतिक्रामेत् । द्वितीयविशिष्टप्रज्ञापारमितामनस्कारस्वभाववियर्थमाह । तद्यथापि नाम सुभूते केना रेत्यादि। मणिरत्नज्ञाने वर्तमानेनेति । तत्परीक्षाशास्त्र सानात्। मणिरत्नजातिज्ञेनेति। लक्षणपरिजयात् । थावत् सा वाऽन्या वा प्रतिलब्धा भवतीति (p 405, 2)। सा वा प्रज्ञापारमिता अन्या वा समाधिराजादिसूत्रान्तधर्मता प्राप्ता भवति । पुस्तकापेक्षया सा वाऽन्या वेति केचित्। शून्यत्वादविरहितत्वं घटत इत्याह। यत्पुनरित्यादि। परिहरन्नाह । सचेत्यादि। तथैव तत्कस्य हेतोरित्याशङ्याह । प्रजेत्यादि एतदुक्तम् । यस्मात्प्रज्ञापारमिता शून्या तत्त्वतो विविपरिहाणिरहिता, तस्माच्छ्न्याः सर्वधर्मा इत्यालम्बनान्मनस्कारस्यापि शून्यत्वाधिमोक्षे सत्यविपर्यत्वात् प्रज्ञापार