________________
अभिसमयालदारालोकः।
मितामनस्कारादिरहित इत्यादि। तृतीयातिशयानुत्पत्तिकक्षान्तिलाभस्वरूपविद्ध्यर्थं प्रश्नयन्नाह। सचेद्भगवनित्यादि। परिहरन्नाह । न खलु पुनरित्यादि । बोधये समुदागच्छतौति (p. 406, 7)। एतदक्तम् । यतः प्रज्ञापारमिताया हानिरद्धिप्रतिषेधबद्धोबोधिसत्त्वस्य परमार्थतो हानिविप्रतिषेधस्ततो मायोपमभावनया संकृत्या पुण्यज्ञानसंभारं समुदानयत्यनुत्तराञ्च सम्यक्संबोधिमभिसंबुध्यतेऽन्यथा तत्त्वतो हानिद्धिसम्भवे विपर्यासोऽसन्नेवैति। एतदेव तत्त्वमित्याह। सचेत् सुभूते बोधिसत्त्व इत्यादि (p. 406, 8)। चरत्ययं बोधिसत्त्व इत्यनेन कश्चित् तात्त्विको धर्मः समाक्षिप्त इत्यभिप्रायादाह। किं पुनर्भर वन प्रज्ञापारमिता चरतीत्यादि। कथं पुनरित्यादि। यदि यथोक्तप्रकारप्रतिनिषेधेन सर्वत्र । नो हौदमित्यच्यते । भगवता कथं पुनः प्रकारान्तरेण चरति। येन चरत्ययं बोधिसत्त्व इति प्रागुक्तमित्यर्थः। संवृत्या -मित्याह। किं पुनः सुभूते समनुपश्यसौत्यादि (p. तत्त्वता । उपसंहरन्नाह । एवं खति (p. 408, 2) · सर्वधर्मा
अपमभावनया नुपलम्भादेव परमा संस्त्या चरणादन
विशिष्टाधिमुक्तिर्भवति । वैशारदापनिटालामा सर्वोपलम्भभयाभावान्निभौंकता प्रतिपत्। श्रतम्यादिज्ञानोत्पादायैवं चरन्नित्यादिपदचयम्। आदर्शदिन्धानभेदेन चानुत्तरं बुद्धज्ञानमित्यादिपदचतुष्टयं योज्यम् ॥ चतुर्थबोध्यबोधकधर्मानुपलम्भलक्षणविवृद्ध्यर्थमाह।