________________
अभिसमयालशारालोकः। ४६३ भावः। अस्य भाषितस्येति। संक्लेशाद्यनुपपत्तौ विविक्तशून्यतादेशनायाः। प्रतिप्रश्नेन परिहर्तुमाह। तत्किं मन्यस इत्यादि। संक्लेशो व्यवदानञ्च प्रज्ञायत इति शून्यत्वेऽपि सर्वधर्माणां संवृत्या कर्मफलसम्बन्धस्य विद्यमानत्वाद्यथाभिनिवेशस्तथा संक्लेशो यथा चानभिनिवेशस्तथा व्यवदानं प्रज्ञायत इति। हादशबुद्धबोध्यासन्नौभवनलिङ्गार्थमाह । एवं च भगवंश्चरन् बोधिसत्त्व इत्यादि (p. 401, I)। तथैव तत्कस्य हेतोरित्याशङ्याह । अनविभूतमित्यादि। श्राद
दिज्ञानचतुष्टयभेदेन बुद्धत्वमित्यादि पदचतुष्टयम् । तथैवानुवदन्नाह। एवमेतदित्यादि। एतावन्त्येव लिङ्गान्यवसातव्यानि। तथा चोक्तम् ।।
स्वप्नान्तरेऽपि स्वप्नाभासर्वधर्मेक्षणादिकम् ।
मूर्धप्राप्तस्य योग हादशधा मतम् ॥१॥ इति लिङ्गनैवं लातएन । कतिप्रकारा विद्धिरिति । जम्बूद्दीपकादिसत्त्वस्था तसत्कारादिपुण्यादिकां प्रथमां विवृद्धिं वक्तुमाह। सचेत् पुनः सुभूते ये जम्बूद्वीपे सत्त्वा इत्यादि। जम्बूद्वीपस्योपलक्षणत्वात्तिसाहलमहासाहस्रलोकधातवीयसत्त्वानामप्यत्र ग्रहणं पञ्चविंशतिसाहसिकायां तथाभिधानात्। तथैव तत्कस्य हेतोरित्याशङ्ख्याह। यथा यथा होत्यादि (p. 402, 11)। दक्षिणीयतां गच्छतौति । पुण्यक्षेत्रतां प्रतिपद्यते। एतदेव कुत इति। तत्कस्य हेतोरित्याशङ्कयाह। तथा होत्यादि। स्थापयित्वेति । परित्यज्य । पूर्ववत्तत्कस्य हेतोरित्याशदयाह। अप्रतिपुङ्गला होत्यादि। प्रत्यक्षानुमानागमार्थानधिगमादप्रतिपुङ्गला