________________
४६२
द्वाविंशतितमपरिवर्तः ।
क्षान्तिपारमितयोपघातमर्षणात्, वौर्यपारमितया कृत्यव्यापारगमनात्, सत्त्वान् परिपाचने योग्यान् कृत्वा विक्षिप्तचित्तानां समाधानाय ध्यानपारमितया, समाहितचित्तानां विमोक्षाय प्रज्ञापारमितया, अववादनात् परिपाक इत्येवं सत्त्वपरिपाचनानुकूल्यतोऽपि संख्याव्यव - स्थानमवसेयम् । तथैव तत्कस्य हेतोरित्याशङ्क्याह । अच हौत्यादि (p. 397, 3) | कल्याणमित्रार्थमेव स्पष्टयन्नाह । येsपि ते सुभूत इत्यादि । पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह । श्रसु हौत्यादि । यावांश्च कश्चिद्दुधर्म इत्यस्य सर्वाकारज्ञताद्यष्टाभिसमयक्रमेण विभञ्जनाद्दुद्धज्ञानमित्यष्टपदानि । उपसंहरन्नाह । तस्मात्तत्यादि । दशमसर्वप्रकारप्रज्ञापारमिताशिक्षणलिङ्गार्थमाह । आसु खलु पुनरित्यादि (p. 398, 8)। तथैव तत्कस्य हेतोरित्याशङ्क्याह । एषा होत्यादि । दर्शनभावनाविशेषाशैक्षमार्गप्रापणाद्यथाक्रमं नायिकेत्यादि पदचतुष्टयम् । आदावुत्पादनाज्जनयित्रौ । पश्चात्संवर्धनाद्यात्रौ । पूर्ववत् तत्कस्य हेतोरित्याशङ्क्याह । प्रज्ञापारमितेत्यादि । एकादशसर्वानभिनिवेशलिङ्गार्थमाह । किं लक्षणेत्यादि । असङ्गलक्षणेति (p. 399, 1) । अनभिनिवेशस्वभावा । पदपरमत्वादाह । स्याद्भगवन्नित्यादि । न्यायस्य तुल्यत्वादाह । एवमेतदित्यादि । तथैव तत्कस्य हेतोरित्याशङ्क्याह । सर्वधर्मा हौत्यादि । तच हेतुफलभावरहितत्वाद्यथासंख्यं विविक्ताः शून्या इति केचित् । शून्यत्वे संक्लेशाद्यभाव इत्याह । यदि भगवन्नित्यादि । सर्वधर्मो नोपलभ्यत इति । श्रन्यत्वादेवेति