________________
व्यभिसमयालङ्कारालोकः ।
४६१
अथ खलु भगव
नवममेव लिङ्गं कथयन्नाह । नित्यादि (p. 396, 3)। तत्र फलावस्थाः षट्पारमिताः शास्ता, प्रथमाधिगममार्गसन्दर्शनाल्लब्धालोकावस्था मार्गः, अधिकालेाकरूपत्वात् वृड्डालेाकावस्था आलोकः, ग्राह्यग्राहकाभावतत्त्वैकदेशप्रविष्टत्वात् तत्त्वार्थैकदेशप्रसृतावस्था
उल्का, अनन्तरं तत्त्वज्ञानोदयादानन्तर्यसमाध्यवस्था अवसर्वोपद्रवनिवारणात् प्रथमायां भूमौ चाणं, तदाशयप्रयोगाबन्ध्यत्वपदस्थानेन द्वितीयायां शरणं । निरवद्यरतिवस्तुत्वात्तृतीयायां लयनं, परमार्यत्वागमनपदस्थानेन चतुर्थ्यां परायणं, चैधातुकपरिच्छिन्नत्वात्पञ्चम्यां द्दौपः, प्रज्ञापारमितास्वभावत्वात् पद्यां माता, उपायरूपत्वात्सप्तम्यां पिता, प्रणिधानात्मकत्वादष्टम्यां ज्ञानाय, बलपारमितालक्षणत्वान्नवम्यां बोधाय, ज्ञानपारमितातिरिक्तत्वेन दशम्यामनुत्तरायै सम्यक्सम्बोधये संवर्तन्त इत्यर्थभेदः । अनुञ्चलनकारणभोगागार सक्तिप्रतिपक्षेण यथाक्रमं दानशौलपारमिते । निवृत्तिकारणसांसारिकसत्त्वविप्रतिपत्तिज दुःखदौर्घकालिक शुक्लपक्षप्रयोगपरिखेदप्रतिपक्षेण यथासंख्यं क्षान्तिवीर्यपारमिते । विप्रणाशकारणविक्षेपदौष्पज्ञप्रतिपक्षेण तथैव ध्यानप्रज्ञापारमिते चेत्येवं विपक्षप्रतिपक्षव्यवस्थानतः षडिति संख्याव्यव - स्थानम्। तथा चतसृभिः पारमिताभिरविक्षेपकारणैरेका पारमिताऽविक्षेपः सम्पद्यते यमविक्षेपं निश्रित्य यथावडर्मतत्त्वावबोधाद्दुद्धधर्माः समुदागच्छन्तीत्येवं सर्वबुद्धधर्म - समुदागमपदस्थानतः संख्याव्यवस्थानम् । तथा दानपारमितया सत्त्वानुग्रहाच्छौलपारमितयाऽनुपघातात्,
9