________________
एकविंशतितमपरिवर्तः।
मात्रमारकर्मार्थमाह। तमेनमित्यादि। संकीर्णविहारेणेति (p. 394, 5)। श्रावकादिमनस्कारोपेतत्वात्। आकौर्णविहारेणेति। महायानादहिर्गतविहारत्वात् । अन्यैर्बोधिसत्त्वैरस्पृश्यत्वाद्दोधिसत्त्वचण्डालः। स्वपरबोधिसत्त्वविदूषणाद्दोधिमत्त्वदूषो। वाङ्मात्रेण बोधिसत्त्वचर्याभ्युपगमाहोधिसत्त्वप्रतिरूपकः। बोधिसत्त्वधर्मवियोगाहोधिसत्त्वप्रतिवर्णिकः । बोधिसत्त्वसङ्घोपघाताबोधिसत्त्वकारण्डवकः । अकल्पिकपरिभोगाच्चौरः। तथैव तत्कस्य हेतोरित्याशङ्याह। अभिमानपतिता होत्यादि। पापधर्मयोगादविशुद्धधर्माणः। कल्याणमित्रविरहादनाचार्यः। अन्यथावादित्वादनार्यधर्माणः। नवमस्वयमभिज्ञापराक्रमकल्याणमित्रमेवनलिङ्गार्थमाह। यस्य खल पुनरित्यादि (p. 39.5, 4)॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां मारकर्मपरिवर्तो नामैकविंशतितमः ॥ ६ ॥