________________
४५८
अभिसमयालयारालोकः । बहुतरसूचान्तविरोधश्च स्यात् । नियतवचनमप्यतेनैव व्याख्यातम्। अनियतवचनं पुनरसत्यामपि प्रतिपक्षभावनायां कादाचित्कफलत्वादित्यवसातव्यम्। मननापत्तिस्थानस्य गुरुत्वमेवं दृष्टान्तेन स्पष्टयन्नाह। तद्यथापि नामेत्यादि। चतस्रो मूलापत्तय इति । वधस्तेयमैथुनान्तसंज्ञिताः प्रधानापत्तयः। भिक्षुसंवरभ्रंशादभिक्षुः। श्रामणेरत्वाभावादश्रमणः । उपासकभाववियोगादशाक्यपुचीयः । जन्मान्तरेऽप्यधिगमाभव्यत्वागुरुतरापत्तिरियं मननापत्तिः । अतिगुरुत्वमावेदयन्नाह। तिष्ठन्वित्यादि। पञ्चेभ्य इति तथागतदुष्टचित्तरुधिरोत्पादादिभ्यः । गुरुतर इति । मानसहगतचित्तोत्पादसंख्यावच्छिन्ननरकवासानुभवनात् । नामापदेशेनैवं मारकर्म निर्दिश्य विवेकगणेनापि मृद (p. 391, 5) मारकर्मार्थमाह। पुनरपरमित्यादि। तत्र वनप्रस्थो वनविशेषः। पश्चादिप्रतिसारित्वेन यावत्समाधेरनधिगमादपरिशुद्धकायवाङ्मनस्कर्मान्तस्तविपर्ययात्परिशुद्धकायवाङ्मनस्कर्मान्तः। तथैव तत्कस्य हेतोरित्याशङ्ख्याह । तथा होत्यादि (p. 393, 3)। मध्यमारकर्मार्थमाह। किश्चापौत्यादि। इमं विवेकमिति । प्रज्ञापारमितोपायकौशल्यात्मकं निःश्रित इत्यादि। मृदमध्याधिमात्रावग्रहभेदात्तत्र विवेकेरण्यवासादौ यथाक्रमं निःश्रित आलीनोऽध्यवसितस्तेनैवात्मोत्कर्षादध्यवसायमापन्नः। पूर्ववत्तत्कस्य हेतोरित्याशङ्याह। यः सुभूत इत्यादि। तेन विवेकेनेति । तेनारण्यवासादिना विवेकेन विहरन्नस्मिन् बोधिसत्त्वविवेके महोपायकौशलादौ न संदृश्यते। अधि