________________
४५८
एकविंशतितमपरिवर्तः ।
तथैव तत्कस्य हेतोरित्याशङ्क्याह । ये हौत्यादि । प्रधानबुद्धत्वावस्थानामव्याकरणेन मारकर्मार्थमाह । पुनरपरमित्यादि । तच प्रयोगाद्यवस्थासु यथाक्रममनुवर्तितमनुवितर्कितमनुविचारितम् । श्रुतमयादिज्ञानेन वेति केचित् । तदुभयं तुलयित्वेति ( 1. 389, 14 ) । यत्तेन विचिन्तितं, यच्च मारेण निर्दिष्टं नामधेयं तदेतदुभयं समेति सङ्गच्छत इति निरूप्य मंस्यत इति सम्बन्धः । तथैव सत्यत्वे कथं मारकर्मेत्याशङ्क्याह । यानि च मयेत्यादि । एवं नामापदेशेन बोधिसत्त्वानां तिरस्कारिणो दुर्लभा बोधिरित्यादि । सचेत्पुनरित्यादि (p. 3007) | संधाव्य संसृत्येति । पापदेशनयात्मानं निर्मलौत्य निरभिमानतां प्राप्येत्यर्थः । एतदेव स्पष्टयन्नाह। यदि चासावित्यादि । तत्र विदूषणाप्रतिपक्षेण विगर्हिष्यति । समुदाचारप्रतिपक्षेण वान्ती - करिष्यति । स्वपरोपेक्षलज्जया जुगुप्सिष्यति । बलात् प्रतिनिःस्रक्ष्यति । प्रत्यापत्तिबलात् प्रतिदेशयिष्यति । दौर्घकाललभ्यत्वेन दुर्लभा । तथैव तत्क हेतोरित्याशङ्क्याह । तावद्गुरुतरं हौत्यादि । परापमानसमुत्थत्वेन यस्मान्मननापत्तिस्थानं तावद्गुरुतरं, येन बोधिदुर्लभा भवति, न त्वसम्भविनौत्यर्थः । तथा हि ये प्रतिपक्षसन्निधावपचयधर्माणस्ते सम्भवदत्यन्तोन्मूलनदक्षप्रतिपक्षास्तद्यथा कनकमलादयः । यथोक्तधर्माणश्च सर्व एव सङ्घर्मावरणादय इति न्यायान्निःशेषं क्षयं यात्येव मननापत्तिस्थानम् । यत्पनः प्रणश्यन्तीत्यादि वचनं तदसत्यां प्रतिपक्षभावनायामिति ज्ञेयम् । अन्यथा युक्तिविरोधो
आश्रय