________________
व्ाभिसमयालङ्कारालोकः ।
४५७
मिति । न सेविष्यत इत्यादि (p. 381, 5) पदत्रयं श्रुतादि
कल्पितपरतन्त्रपरिनिष्यन्नस्वरूप
ज्ञानोत्पादनार्थम् । परिज्ञानार्थं वा यथासंख्यं योज्यम् । प्रसङ्गान्मारकर्मप्रभेदं निर्दिशन् मृदुमारकर्मार्थमाह । पुनर परमित्यादि । नामापदेशेनेति तन्नामकथनेन । नामाधिष्ठानेनेति मात्रादिनामव्यपदेशेन । तथैव तत्कस्य हेतोरित्याशङ्क्याह । तव हौदं नामधेयमित्यादि । तच ग्रामं परित्यज्य कोशमात्रेणावस्थानादारण्यकः । गृहीतपिण्डपातसमादानत्वात्यैण्डपातिकः । रथ्याकर्पटचौवरत्वेन पांशुकूलिकः । ममस्तं भक्तादिकमादाय भोजनात्पश्चात्खलुभक्तिकः । एकाशनोपवेशेन यथेष्टं परिभोगादेकाशनिकः । यथा मंस्तौर्णकर्पटादौ शयनाद्याथासंस्तरिकः । संघाव्यादि - चिचौवरमात्रत्वाचैचौवरकः । श्मशाने स्थितत्वेन श्माशानिकः । तथा वृक्षमूलिकः । निषद्यया रात्रौ स्थानानैषद्यिकः । उपर्यावरणाभावेनाभ्यवकाशिकः । धृतोर्णा - चौवरादित्वेन नामतिकः । अधिकाभिलाषाभावादल्पेच्छः । तावन्मात्रेण सन्तोषात्सन्तुष्टः । आपत्तिरहितत्वेन प्रविविक्तः । अल्पेच्छत्वादपगतपादम्रक्षणः । पूर्ववत्तत्कस्य हेतोरित्या - शाह तथा हौत्यादि (p. 387 13 ) । मध्यं मारकर्मार्थमाह । तं च मार इत्यादि । तथैव तत्कस्य हेतोरित्या - शङ्क्याह (p. 388, 1)। तथा हि तवेत्यादि । अधिमाचकर्माथमाह । तस्य खलु पुनरित्यादि । पूर्ववत्तत्कस्य हेतोरित्याशङ्क्याह । तथा हौत्यादि । सद्भूतत्वे कथं पुनरिदं मारकर्मेत्याशङ्कयाह । ये खलु पुनरित्यादि ।