________________
४५६
एकविंशतितमपरिवर्तः । माराधिष्टानेनापक्रमणे सति नेदमष्टमं लिङ्गमित्याह । तत्र खलु पुनरित्यादि (12. 384, 2)। तथैव तत्कस्य हेतोरित्याशङ्ख्याह। मारो हौत्यादि। अचिरयानसम्प्रस्थितस्येति । मूर्धाभिसमयेऽधुना प्रतस्य स्वरूपमहत्त्वाइलवत्तरं, कार्यनिवर्तकत्वात्तेजोवत्तरं, गौरवाकरणादवमस्यते, हास्यस्थानीयत्वादच्चग्धयिष्यति। अतिशयोक्त्यभिधानादल्लापयिष्यति। निन्दाकरणात्कृत्सयिष्यति। वैरूप्यनिश्चारणात्पंशयिष्यति। मानस्योत्पादनविशेषाधानान्मानं जनयिष्यति। मानं सञ्जनयिष्यति। तथैवातिमानमानातिमानाभिमानभेदेन पदपदं मानं वर्धयिष्यति । मानं संवर्धयिष्यति । मानं स्तम्भयिष्यति। मानमुपस्तम्भयिष्यति। मानं मुहयिष्यति। मानमुपटहयिष्यतीति यथाक्रमं योज्यम्। मिथ्यामानकरणान्मानमुत्यादयिष्यति। स तेन मानेनेत्यादि। हौनादहं श्रेयान् सदृशेन वासदृश इति चित्तोन्नतिर्मानः। सदृशादहं श्रेयान् श्रेयसा वा सदृश इत्यतिमानः। श्रेयसः श्रेयानहमिति मानातिमानः। अप्राप्ताधिगमे प्रात्यभिप्रायादभिमानः। अगुणवतोऽपि गुणवानहमिति मिथ्यामानः। दूरौकरिष्यति सर्वज्ञतामित्यादि। एतदुक्तम् । मानेन दूरौकरिष्यति सर्वज्ञतां त्रिसर्वज्ञतात्मिकाम्। अतिमानमानातिमानाभिमानैर्यथाक्रमं दूरौकरिष्यत्यनुत्तरं बुद्धज्ञानं सर्वाकाराभिसम्बोधम् । स्वयम्भूज्ञानं मूर्धाभिसमयम्। सर्वज्ञज्ञानमनुपूर्वाभिसमयम् । मिथ्यामानेन च दूरौकरिष्यत्यनुत्तरां सम्यक्सम्बोधिमेकक्षणाभिसम्बोधपूर्वकं धर्मकायाभिसमय