________________
४५३
अभिसमयालदारालोकः । र्तिकानवैवर्तिकभावधारणेनावैवर्तिकलिङ्गोपायः सूचितः स्यात्। सर्वविषयज्ञानत्वेनाप्रमाणविषयोपायार्थं चाह । तेन हि भगवन्नित्यादि। असंहार्या इति । तेषां बोधिसत्त्वानामसंहार्यत्वेनोपायस्य विषयाप्रमाणता ज्ञापिता भवेत्। तदेवं विषयप्रयोगाभ्यां समन्वागतं यथोक्तमेव दशविधमुपायकौशलं ग्राद्यम् । तथा चोक्तम्।
विषयोऽस्य प्रयोगश्च शात्रवाणामतिक्रमः। अप्रतिष्ठो यथावेधमसाधारणलक्षणः ॥६२॥ असतोऽनुपलम्भश्च निमित्तप्रणिधिक्षतः । तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् ॥६३॥ इति कः पुनस्त्रिसर्वज्ञायाः सर्वाकाराभिसम्बोधस्य च विशेषः। प्रतिनियताकारविषयास्तिस्त्रः सर्वज्ञता यथोक्तनाकारप्रतिनियमेन, समस्ताकारविषयस्तु सर्वाकाराभिसम्बोध इति केचित् । लाक्षणिकं त्रिसर्वज्ञताव्यवस्थानं प्रायोगिकस्तु सर्वाकाराभिसम्बोध इत्यन्ये । विपक्षप्रतिपक्षव्यवस्थानप्रभावितः सर्वाकाराभिसम्बोधस्त्रिसर्वज्ञतास्तु न चैवं प्रकृतिशान्ताकारत्वादित्यपरे। समाप्तः सर्वाकाराभिसंबोधः ॥
प्राप्तसकाराभिसम्बोधस्येदानों प्रकर्षपर्यन्तोऽधिगम इति मूर्धाभिसमयो वक्तव्यस्तच लिङ्गं तावदस्याभिधानौयं येनासौ लियते । ततः स्वप्नावस्थायामप्यत्यभ्यासात्वप्नसदृशसर्वधर्मे क्षणं प्रथमं लिङ्गं वक्तमाह। सचेत्पुनः सुभूते बोधिसत्त्वो महासत्त्वः स्वप्नान्तरगतोऽपौत्यादि। एतदुक्तम् । एवं प्रज्ञोपायपरिगृहौता बोधिसत्त्वस्य योग