________________
૨૧૪
विंशतितमपरिवर्सः। धर्मभावना मूर्धप्राप्ता यत् स्वप्नान्तरेऽप्यस्य योगविदर्शनामनस्कारास्तथाभूतधर्मा साक्षात्करणेन सत्त्वधातुसापेक्षा एव प्रवर्तन्त इति। द्वितीयश्रावकादिभूमिस्पृहाचित्तानुत्पादनलिङ्गार्थमाह। पुनरपरं सुभूत इत्यादि। तत्रापूर्वप्रात्यभिलाषः स्पृहा। प्राप्तावियोगेच्छा अनुशंसा चित्तम् । तृतीयतथागतादिदर्शनलिङ्गार्थमाह। अनेकशतायाः पर्षद इत्यादि। चतुर्थबुद्धर्द्धिविकुर्वितोपलब्धिलिङ्गार्थमाह । वैहायसमभ्यगम्येत्यादि (p. 381, 5)। पञ्चमस्वप्नोपमधर्मदेशनाचित्तोत्पादलिङ्गार्थमाह। बोधिसत्त्वो महासत्त्वो नोत्तस्यतीत्यादि। षष्ठबुद्धक्षेत्रोपायग्रहाणानुस्मरणलिङ्गार्थमाह। नैरयिकान् सत्त्वानित्यादि। किमिदमपायविशुद्धिलक्षणं नामेति प्रश्न यन्नाह । तत्र सुभूते कथमित्यादि (p. 382, 4)। परिहरन्नाह । सचेत्सुभूते बोधिसत्त्व इत्यादि। सप्तमनगरादिदाहप्रशमनसत्याधिष्ठानसमृद्धिलिङ्गार्थमन्वयमुखेनाह। नगरदाहे वेत्यादि। मृदुमध्याधिमात्रभेदेनापगमाद्यथाक्रममुपशाम्यतु शौतीभवतु अस्तं गच्छत्विति योज्यम्। व्यतिरेकमुखेनापि कथयन्नाह । सचेन्नोपशाम्यतीत्यादि (p. 383, 2)। उभयथापि निर्दिशनाह। सचेत्पनरित्यादि। कर्म विपच्यत इति । सद्धर्मप्रत्याख्यानम् । दृष्टधर्मसंवर्तनीयमेव कर्म सत्याधिष्ठानानिष्पत्तेदौर्मनस्यादि नानुभूयते। तत एवेति । जन्मान्तरसङ्गहौतात्। अष्टमयमाद्यमनुष्यापगमसत्यवाक्यनिष्यत्तिलिङ्गार्थ व्यतिरेकमुखेनाह। पुनरपरं सुभूते