________________
४५२
विंशतितमपरिवर्तः। अप्रणिहितं समाधिविमोक्षमिति (p. 378, 2)। अप्रणिहितसमाधिविमोक्षमुखभावनापरिपूरिगमनेनाप्रणिधानोपायः सूचितः। शून्यतादीनां श्रावकादिसाधारणत्वेऽपि तद्पायविशेषणार्थमाह। यो हि कश्चित् सुभूते बोधिसत्त्व इत्यादि। तत्र शून्यतादित्रिविमोक्षमुखविपर्ययेणोपलम्भे चरिताविन इत्यादि विधोक्तं तस्यैव च व्याख्यानं पिण्डसंज्ञायामित्यादिना यथाक्रमं कृतम्। शून्यतात इत्यादावाद्यादित्वेन सप्तम्यन्तात्तसिः । एतदुक्तम् । कृपादियोगादेवं ज्ञानधर्मसमन्वागतो बोधिसत्त्वः शून्यतादौ यतेदित्यस्थानमेतदिति। प्रश्नपूर्वकावैवर्तिकधर्मकथनेनावैवर्तिकलिङ्गोपायार्थ प्रश्नं कर्तुं शिक्षयन्नाह । एवं हि बोधिसत्त्व इत्यादि (p. 379, 3)। व्यतिरेकमुखेन निर्दिशनाह। सचेदित्यादि। तथैव तत्कस्य हेतोरित्याशङ्याह । यो ह्यसावित्यादि। तवावेणिको धर्मः सर्वसत्त्वापरित्यागस्तं श्रुतचिन्ताभावनामयज्ञानोत्पादनार्थं यथाक्रम न सूचयति, न प्रभावयति, नोपदर्शयति, यतो न प्रजानाति परिपृष्टो न व्याकरोति न विसर्जयतीति यथासंख्यं योज्यम् । तां भूमिमित्युपायकौशल्यम्। अन्वयमुखेन प्रतिपादयितुं काका प्रश्नयन्नाह। स्यात्युनर्भगवन्नित्यादि (p. 380, 1)। तथैव परिहरन्नाह। स्यात्सुभूते इत्यादि। एवं प्रतिपद्यतेत्यादि। उपायकौशल्यं सर्वसत्त्वापरित्यागश्चाभ्यसनीय इत्यवगच्छेत् । एवं विसर्जयेदिति। परैः पृष्टस्यावैवर्तिकाधिगमानुरूपव्याकरणाव्याकरणभ्यामवैव