________________
पभिसमयालङ्कारालोकः।
४५१ नाह। यदा बोधिसत्त्व इत्यादि। पूर्ववत्तत्कस्य हेतोरित्याशङ्याह। तथा ह्यस्येत्यादि। न साक्षात्करोतीति (p. 376, 2)। सर्वसत्त्वापरित्यागाशयसामर्थ्येन भूतकोटेरनधिगमादसाधारणोपायो ज्ञापितः स्यात् । सर्वधर्मानुपलम्भादसतोपायं वक्तुमाह। पुनरपरं सुभूते यदा बोधिसत्त्व इत्यादि। सत्त्वसंजयेति। भावाभिनिवेशेन। न च परिहीयत इति। आस्वादनोपलम्भेन परिहाणिसम्भवान्मयादिसर्वकुशलधर्मापरिहाणिवचनादनास्वादनोपायः सूचितः स्यात्। तथैव तत्कस्य हेतोरित्याशङ्याह। उपायकौशल्यपरिगृहीतो होत्यादि। शून्यताविमोक्षमुखत्वेनानुपलम्भोपायार्थमाह। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति । दीर्घरात्रममौ सत्त्वा उपलम्भे चरन्तीत्यादि। शून्यतासमाधिविमोक्षमुखं समापद्यत इत्यादि (12. 377, 2)। शून्यतासमाधिविमोक्षमुखभावनापरिपूरिगमनादनुपलम्भोपायः परिदीपितः। निमित्तानुपलम्भादनिमित्तोपायार्थमाह। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति। दीर्घराचममौ सत्त्वा निमित्तसंज्ञयेत्यादि। अनिमित्तं समाधिविमोक्षमुखं समापद्यत इति । अनिमित्तसमाधिविमोक्षमुखभावनापरिपूरिगमनेनानिमित्तोपायो गदितः। प्रणिधानानुपलम्भेनाप्रणिधानोपायार्थमाह। पुनरपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्यैवं भवति। दीर्घराचममौ सत्वा नित्यसञ्जयेत्यादि।