________________
४५०
विंशतितमपरिवर्तः । सुखाविश्लेषहितकरणाशयसमृड्डौ सपरिवाराः समाधयो यथाक्रमं मैचौकरुणामुदितोपेक्षाः। तथैव तत्कस्य हेतोरित्याशङ्याह। तथा ह्यस्येत्यादि। एतदेव स्पष्टयन्नाह । यस्मिन् समय इत्यादि। मारपक्षं चातिक्रम्येत्यनेनान्तरायिकधर्मसमतिक्रमणोपायः सूचितः स्यात्। उपसंहरनाह। यस्मिन्नित्यादि (p. 374, 2)। विभावितसर्वसमत्वेनाप्रतिष्ठितविहारोपायं कथयन्नाह । तद्यथापि नाम सुभूते पक्षीत्यादि। न च तत्रापि निश्रितो न च प्रतिष्ठित इति।
आकाशस्यासत्त्वान्न तत्र बुड्या निश्रितो नापि कायेन स्थितोऽथ च तस्मिन्नेव विहरतीत्यप्रतिष्ठितविहारोपायो ज्ञापितः स्यात्। दान्तिकार्थमाह। एवमेव सुभूते बोधिसत्त्व इत्यादि। प्रणिधानसमृड्या पूर्वप्रणिधानानुवृत्त्युपायं निर्दिशन्नाह। तद्यथापि नाम सुभूते बलवानित्यादि। यावन्नाकांक्षेदित्यनेन प्रणिधानावेधमुपादायानुवृत्तिजीपिता। प्रकृतार्थ बोधिसत्त्वे नियोजयन्नाह। एवमेव सुभूत इत्यादि। भावनाविशेषमार्गाभ्यां यथाक्रमं परिपक्कानि सुपरिपक्कानि। उपसंहरन्नाह। तस्मात्तर्हि सुभूत इत्यादि (p. 375, 1)। स्वभ्यस्तसर्वदुष्करत्वेनासाधारणोपायं प्रतिपादयन्नाह। दुष्करकारको भगवन्नित्यादि। श्रुतचिन्ताभावनाभिर्यथाक्रम शून्यतायां चरतीत्यादि योज्यम् । साधूक्तत्वेनानुवदन्नाह। एवमेतदित्यादि। तथैव तत्कस्य हेतोरित्याशक्याह। तथा होत्यादि। अमुमेवार्थ समर्थय