________________
व्यभिसमयालङ्कारालोकः ।
४४६
परा
मधिगच्छेदिति । उपायः पुनर्दशविधो भवति । तच तावत् प्रतिबन्धसमतिक्रमणेनान्तरायिकधर्मसमतिक्रमणोपायार्थमाह । तद्यथापि नामेत्यादि । तत्र शौर्यरूपगुणैर्मृदुमध्याधिमात्रैः यथाक्रममुपेतत्वात्परमश्वरश्च भवेदित्यादि नवपदानि वाच्यानि । ग्रन्थार्थग्रहणसमर्थत्वान्मेधावी । करणपाटवौद्दचनसमर्थः । प्रश्नपरिहारात् प्रतिवचनसमर्थः । स्तम्भितत्वाभावात्प्रतिभानसम्पन्नः । स्वौकारार्थसम्पादनात्प्रतिपत्तिसम्पन्नः । हेयोपादेयत्वेन कालादीनां परिज्ञानात्कालदेशज्ञः, स्थानज्ञः । मुख्यतो धनुषि सुशिक्षितत्वादिवस्त्रेषु परमगतिं गतः । बहूनां दृढानाश्च प्रहरणानां निवारकत्वाद्दहुप्रहरणावरणो दृढप्रहरणावरणः । वर्जनकराः कायादिविकाराः कलाः । चिचकर्मादौनि शिल्पस्थानानि । स्मृतिमानित्यादि । सुगमम् । निर्वर्तनसामर्थ्यान्निस्तरणसमर्थः । केनचिदेव कारणसामग्रौयोगेनामिचाद्युपनिपातेन । चित्तवाक्कायविकारापादनाद्यथाक्रमं महाप्रतिभयं भीषणं रोमहर्षणम् । सर्वोपद्रवरहितत्वेन शान्त्या क्षेमेणापक्रमयिष्यामि । शरीरसौस्थित्यापुष्ट्या स्वस्तिना परिमोचयिष्यामि । एकद्रव्याभिलाषाद्वैरानुबन्धेन प्रत्यर्थिकाः । श्रमित्रपक्षपतिताः प्रत्यमित्राः । दयालुत्वादतिस्निग्धः । दाक्षिण्ययोगात्सानुक्रोशः । तथैव तत्कस्य हेतोरित्याशङ्क्याह । तथा हि भगवन्नित्यादि कायचित्तपौडारहितत्वादक्षतोऽनुपहतः ।
( p. 373, 3 )।
दृष्टान्तमेवं निर्दिश्य दान्तिकार्थमाह । एवमेव सुभूते बोधिसत्त्व इत्यादि । तत्र सवेषु सुखसंयोगदुःख वियोगसत्त्वेषु
57