________________
४४८
विंशतितमपरिवर्तः ।
निष्पादितबुद्धक्षेत्रविशुदिनोपायकौशलेन सम्भारं परिपूर्य पश्चाद्यथाभव्यतया बुद्धकृत्यं स्वबुद्धक्षेत्रे करणीयमित्युपायकौशलं वक्तव्यम् । तत्रास्य विषयं प्रतिपादयितुं प्रश्नयन्नाह। प्रज्ञापारमितायामित्यादि (p. 370, 1)। परिहारार्थमाह । इह सुभूत इत्यादि। रूपमिति तां धर्मतां धर्मतयेति तां शून्यतां धर्मतया शून्यतया रूपं वस्विति प्रत्यवेक्षमाणो यथा न समनुपश्येच्छन्यतां शून्यतास्वभावेनास्तौति यथा नोपलभते तथा प्रत्यवेक्षितव्यमिति यावत् । एतदक्तम्। मायोपमः शून्यतादिरुपायकौशलविषय इति। कथं पुनरभ्यासेऽपि नाधिगच्छतोत्याह। यद्भगवन्नित्यादि। अस्य परिहारेणोपायकौशलप्रयोगं निर्दिशन्नाह। यतः सुभूत इत्यादि। सर्वाकारवरोपेतामिति दानाद्यविकलाम् । असमाहित एवेति। प्रज्ञापारमिता च महोपायकौशलात्मिका मया परिगृहौता भविष्यति। न च शून्यता साक्षात्कृतेत्यभिप्रायादेतन्निष्ठ एव शून्यतासमाधौ चित्तं धारयति। अत्र च मध्ये जिनजननौसामर्थ्यान्न परिहीयते बोधिपक्षधमः, न चाश्रवक्षयं कामभवाश्रवग्रहाणं सञ्चिन्त्य सत्त्वार्थ प्रतिजन्मप्रतिग्रहात् करोति शून्यतासमाध्यालम्बनादाश्रवक्षये च परिजयं करोतीत्यर्थः। एतदेव स्पष्टयनाह। यस्मिन् समय इत्यादि (p. 371, 3)। कथमभ्यासेऽपि न साक्षात्कर्तव्यमिति। तत्कस्य हेतोरित्याशङ्कयाह। एवमारूढकुशलेत्यादि। भूतकोटिं न साक्षात्करोतीति। एतदक्तम् । सर्वाकारभावनापरिजयप्रत्यवेक्षासाक्षात्करणकालाकालज्ञानप्रयोगसामर्थ्यात्तस्मिन् समाधौ स्थितोऽपि न शून्यता