________________
व्यभिसमयालङ्कारालोकः ।
इयमानन्देत्यादि ।
सम्यक्सम्बोधिमभिसम्भोत्स्यत इति व्याकरणेन पार्षदानामेवंविधबुद्धक्षेत्र विशुद्धिलाभसम्प्रत्यये
साक्षिभावः सूचित इति केचित् । अभिसम्बोध्यवस्थातः प्रागपि व्याकुर्वन्नाह । सेयमानन्देत्यादि । व्याकृतानामेव तचोत्पादादिस्मय इत्याह । अथ खल्वायुष्मत (p. 367, 5) इत्यादि । साधूक्तत्वादाह । एवमेतदित्यादि । तच क्लेशण - वरणप्रहाणादुत्तौर्णपङ्काः । मूर्धाभिसमयेऽवस्थितत्वाद्दोधिपरिनिष्पत्त्युपगताः । श्रावकसङ्घमपि व्याकुर्वन्नाह । तस्य खलु पुनरित्यादि । तथैव तत्कस्य हेतोरित्याशङ्क्याह । तावन्त इत्यादि । कृतपुण्यानां निष्पन्नप्रणिधानत्वेनाह । तेन खलु पुनरित्यादि । उपसंहरन्नाह । सुवर्णपुष्पस्येत्यादि (1). 368, 2 ) । अत्याश्वर्यं श्रुत्वा पूर्वयोगं प्रश्नयन्नाह । अनया भगवन्नित्यादि । स्वरूपमावेदयन्नाह । अनयानन्देत्यादि । प्रणिधानानुरूपमेवेदं सर्वप्रकारव्याकरणमित्याह । कृतपरिकर्मेत्यादि (1). 369, 5 ) । तच प्राप्तदर्शनमार्गत्वात्कृत परिकर्मा । विदितभावनापथस्वभावत्वात्कृतपर्यन्ता । तथैव स्वहस्तयन्नाह । एवमेतदित्यादि ॥
अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां गङ्गदेवा भगिनीपरिवर्तो नामै कोनविंशतितमः ॥
४४७
-