________________
४४६
ऊनविंशपरिवर्तः।
अष्टाङ्गोपेतपानीयं सुगन्धिस्वादशीतलम् ।
लघ्वच्छं शुचि पातुश्च कुक्षिकण्ठौ न बाधते ॥ इत्युदकलाभादष्टाङ्गोपेतपानौयलाभिनः। मृदुमध्याधिमात्रभेदेन सुखिताः सुखसमङ्गिनः सर्वसुखसमर्पिताः (19. 363, 13) । दर्शनपथप्राप्तत्वे प्रादुर्भविष्यति। उपभोगयोग्यत्वेनोत्पत्स्यते । स्थितिहेतुत्वादन्नादयो जीवितपरिकाराः। चिरेणेत्यतिदीर्घकालेन। पूर्ववत्तत्कस्य हेतोरित्याशयाह। यो हि चित्तक्षण इत्यादि (12. 364, 9) । यस्माद्यश्चित्तक्षणस्तत्त्वतोऽनुत्पन्नः संवृत्या सैषा चिरकालवती प्रथमकारणरहितत्वादनादिरपूर्वा कोटिः। पर्यन्तो भागो बुद्धत्वावस्था शून्यतास्वभावत्वाद्यदुताकोटिस्तस्माचिरेणाभिसम्बोधादत्वासादि न कर्तव्यम् । दुष्करसंज्ञा च नोत्पादयितव्येत्यर्थः। भयभैरवेभ्य इति। बाह्यं व्याडादिभयम्। अध्यात्म ज्वरादिभैरवम् । यथोक्तबुद्धक्षेत्रपरिशोधनेऽशक्यानुष्ठानत्वान्न कश्चित्प्रवर्तत इति चेदाह । अथ खलु तत्र पर्षदौत्यादि (p. 365, 7)। अत्र स्थान इति । अभ्यासयोगेन शक्यत्वानिर्दिष्टबुद्धक्षेत्रपरिशोधने, तदाशयसम्पत्तिबलाद्याकरणनिमित्तं जातमित्याह । अथ खल भगवानित्यादि। मूर्धन्यन्तरधीयत इति। धर्मतैषा यदा तथागतत्वेन व्याकरणं कर्तव्यं, तदोष्णीषसन्धौ रश्मयोऽन्तलौनाः । निमित्तदर्शनात्सञ्जातातिशयत्वेनार्यगङ्गदेवा विहितपूजेत्यादि। समनन्तरप्रादुष्कृते चेत्यादि। बहुधा गृहीतसम्बन्धत्वेन स्मितप्रयोजनं प्रश्नयन्नाह। अथ खल्वायुष्मानानन्द इत्यादि (p. 366, 3) । स्वरूपमावेदयन्नाह ।