________________
४४५
अभिसमयालङ्कारालोकः ।
४४५ समतो बुद्धो भवति । स्वबुद्धक्षेत्र इत्यनन्तरं सत्त्वभाजनलोकभेदेन द्विविधबुद्धक्षेत्रविशुद्धिं निर्दिशन्नाह । पुनरपरं शारिपुत्रेत्यादि। तत्र सत्त्वलोकस्याशुद्धिर्या जिघत्सादिका तस्याः प्रतिपक्षेण दिव्योपभोगादिशुड्युपसंहारतः, तथा भाजनलोकस्याशुद्धिर्या स्थाणुकण्टकादिका तस्याः प्रतिपक्षेण समपाणितलजातादिशुद्ध्यपसंहारतो यथाक्रम विविधबुद्धक्षेत्रविशुद्धिरित्यभिसंक्षेपतः । तथा चोक्तम् ।
सत्त्वलोकस्य याऽशुद्धिस्तस्याः शुद्ध्यपहारतः । तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता ॥६१॥ इति। विस्तरस्तु यथासूत्र सुबोधम्। तत्र किञ्चिदच्यते। तथैव तत्कस्य हेतोरित्याशङ्याह। तथा हि तेन सर्वमित्यादि। एतदेव स्पष्टयन्नाह । तेनैवं चित्तमित्यादि। तत्र सर्वेण वर्णसंस्थानवस्तुरूपेण, सर्व तज्जातिभेदभिन्नं वस्तु, सर्वथा तदेकैकजातिप्रकारभेदेन, सर्व यथासम्भवप्रकारम् । स्वरूपविरहान्न भविष्यन्ति, तत्कृतचिह्नाभावान्न प्रज्ञास्यन्ते । तथैव तत्कस्य हेतोरित्याशङ्कयाह । सर्वस्वपरित्यागकुशलाभिरता होत्यादि। एतदेव विस्तारयन्नाह। तेनैवं चित्तमित्यादि। व्यापादक्रोधरोषा (p. 362, 2) इति । व्यापादः सत्त्वविद्वेषः। क्रोधः सत्त्वासत्त्वयोराघातः। रोषो वैरानुबन्धः। चित्तविशेषोत्यादात्तथा च करिष्यामि । प्रतिपत्त्या सम्पादनात्तथा च प्रतिपत्स्ये। अतिशयवौर्यकरणाद्यापत्स्ये। पानीयाभावात्यानीयकान्तारं तद्भयम् । तथैव तत्कस्य हेतोरित्याशयाह । असंवस्तेत्यादि।