________________
४४४
ऊनविंशपरिवर्तः।
नित्यादि। प्रयोगाद्यवस्थासु न वेद्मोत्यादि योज्यम् । कथं तहौत्याह। अपि तु खलु पुनरित्यादि। एतदुक्तम् । सर्वधर्मानुपलम्भलक्षणनिर्विकल्पकज्ञानेनैवं स्वभावाः सर्वधर्मा मायोपमत्वेन स्वभावत्वात् साक्षात्कृता यथाधिगमावस्थायां विकल्पासमुदाचारान्न कायेन स्पृश्यत, न वाचा भाष्येत, न मनसा समन्वाहियेत। यस्मादिकल्यानुगमे विपर्याससमुद्भवादधिगमो न स्यात्ततश्चाधिगमोत्तरकालमुद्भावनासंकृत्या व्यवहार इति। श्रावकागोचरो निर्विकल्पकज्ञानाधिगम इत्याह। गम्भीर प्रज्ञ इत्यादि । श्रावकाणामौदृश एवाधिगम इत्याह । कुतस्ते शारिपुत्रेत्यादि। निर्विकल्पज्ञानमात्रेणाधिगमस्य तुल्यत्वाइम्भीरप्रज्ञोऽयमिति। नैवञ्चित्तमुत्पादनौयमित्यर्थः । तुल्यत्वमेव कथयन्नाह । समनुपश्यसि त्वमित्यादि। तं धर्मक्षयानुत्पादज्ञानलक्षणमहत्वं विकल्पज्ञानेनाधिगमकाले किं त्वं पश्यस्यपलभस इति यावत्। विपर्यस्तत्वेनाधिगमविरोधित्वान्नैवेत्याह। नो हौदमिति । बोधिसत्त्वानामौदृश एवाधिगमकाले न्याय इत्याह। एवमेव शारिपुत्रेत्यादि (p. 361, 1)। तदेवं कर्माभावादिचोद्यानां यथोक्ता एव प्रतिसमाधयो ग्राह्याः। तथा चोक्तम् । कर्माभावादिचोद्यानां परिहारा यथोदिताः॥६०॥ इति
संसारनिर्वाणसमतामुपसंहतुं तद्देशनायास्तादात्विक प्रयोजनमधिकृत्याह । स चरन्नोत्तस्यतीत्यादि। अनुपलम्भचर्यया लब्धशक्तित्वान्नाहं नाभिसम्भोत्स्येऽपितु नियतमभिसंभोत्स्य इत्येवायं योगमापद्यते। विभावितोभय