________________ अभिसमयालवारालोकः / 443 ऽनागामी निरोधलाभौ कायसाक्षी। तहद्दवत्वप्रतिपन्नकत्वेनार्यमैत्रेयः कायसाक्षी। एतमर्थमिति स्वप्ने परिणामितम् / किन्तदानमिति प्रश्नम्। सुभूतिवचनादेवार्यमैत्रेयमामन्त्रयन्नाह। अथ खल्वायुष्मन्नित्यादि। प्रतिपादितेऽप्यर्थे प्रत्येकविनेयभेदेन पुनः पुनराशङ्कायां भूयो भूयः परिहाराभिधानेऽपि न सर्वेषामेकबुद्धोत्पादकाल एव विपर्यासापनयनं शक्यं कर्तुं भव्यानामेवार्थकरणादित्येतत्पश्नविसर्जनाधिकारेणैवानागतबुद्धपरम्परोत्पत्तिरित्यपरिसमाप्तिनिर्देशोऽयं प्रश्नस्तत्परिसमाप्तौ सत्यां कर्तव्याभावादनागतबुद्धोत्पादवैयर्थप्रसङ्गश्चेत्यभिप्रायवान् परिहतुकामत्वेनाह। यदायुष्मान् सुभूतिरेवमाहेत्यादि। सम्भवमधिकृत्य विकल्पयन्नाह। किं पुनरायुष्मन् सुभूते यदेतन्नामधेयमित्यादि। तत्र तावन्न शून्यता विसर्जयतौत्याह। या खल पुनरित्यादि। न सा प्रतिबलेति / अविद्यमानत्वान्न सा समर्था / रूपादयोऽपि न शक्ता इत्याह। तमप्यहमित्यादि (p 360, 1) / कर्तृकर्मक्रियानुपलम्भभेदेन यो धर्मो विसर्जयेत्, यो धर्मो विसर्जयितव्यः, येन धर्मेण विसर्जयेदित्युपादानम्। आत्मानं विषयोकृत्योक्तम् / यो धर्मों व्याकृत इति / सर्वधर्मानुपलम्भो न घटत इत्याह / कच्चित् पुनरित्यादि। कच्चिदिति यदि। एतदक्तम् / यदि त्वया एते रूपादयो धर्मा एवं साक्षात्कृता यथैनान् धर्मान् वाचा भाषसे, तदा विकल्यार्थोपलम्भवदधिगतार्थोपलम्भसद्भावे विसर्जकभावेन कथं सर्वधर्मानुपलम्भ इति / नैवमधिगत इत्याह / न मयायुष्म