________________
४४२
ऊनविंशपरिवतः।
कस्मान्न प्रवर्तत इति चेदाह। एवमेवेत्यादि। धर्मतैषा प्रतीत्यसमुत्पादधर्मतया यस्मादनालम्बनं कर्म चित्तं च नोत्पद्यते, तस्मात्सालम्बनमेवोत्पद्यत इति। एतदेव स्पष्टयन्नाह । दृष्टश्रुतेत्यादि । तत्र,
तदतद्रूपिणो भावास्तदतद्रूपहेतुजाः। इति न्यायेन काचिद्दद्धिः संक्लेशालम्बना संक्लेशं परिगृह्णाति। काचिद्दर्व्यिवदानालम्बना व्यवदानं परिगृह्णाति । चेतनेति बुद्धिरित्येके । चेतना मानसं कर्मेति वचनात् कर्मैव पर्यायेणोक्तमित्यपरे। उपसंहरन्नाह । तस्मात्तायुष्मन्नित्यादि। अतीतानागतस्यासत्त्वेनालम्बनभावानुपपत्तेर्वर्तमानस्य चार्थस्य साकारज्ञानादिभिग्रहीतुमशक्यत्वेन सर्वालम्बनशून्यत्वे सालम्बनापि चेतना कथमुत्पद्यत इत्याह । यदायुष्मन् सुभूत इत्यादि। विविक्तानौति। आलम्बनभावरहितत्वेन शून्यानि। संरत्याऽभूतपरिकल्पालम्बनादत्पद्यत इत्याह । निमित्तौकत्येत्यादि। रूपादिगतमसाधारणं चिहं तत्त्वेनानिमित्तमपि यथादर्शनं निमित्तौकृत्यारोप्येति यावत्। यावदित्यनेन विज्ञानप्रत्ययं नामरूपमित्यादिपरिग्रहः। लोकव्यवहारमुपादायेति संतिमधिकृत्योत्पद्यत इत्यनन्तरं उच्यत इति शेषः। स्वप्नेऽपि कर्मफलसम्बन्धास्तित्वे प्रतिपादिते पुनरौपलम्भिकजनानुरोधेनाशङ्कयन्नाह । यदायुष्मन् सुभूत इत्यादि। परिहृतेऽप्यर्थे पुनराशङ्कायामानन्त्येन कः सचेताः परिहरतीत्यभिप्रायादाह। अयमायुष्मन् शारिपुत्र मैत्रेय इत्यादि (p. 359, 1)। कायसाक्षीति। अर्हत्त्वप्रतिपन्नको