________________
व्यभिसमयालङ्कारालोकः ।
निवेशपरिपुष्ट्या परिपोषप्राप्तेर्बहिरर्थनयेनापि स्वप्ना - वस्थायामिवेति दृष्टान्तासिद्धिः । अतो मध्यमकनयेन जाग्रदवस्थायामपि स्वप्नसदृशे वस्तुनि तदनुरूपार्थे भावाद्यभिनिवेशेनाखण्डितसकलविपर्यासबन्धनानां कुशलादयो व्यवस्थाप्यन्ते । किन्तु मिद्धादिकभ्रान्तिकारणत्वेनास्पष्टाकुशलप्रतिपत्त्या स्वप्ने न्यूनं फलं जाग्रदवस्थायां तु मिचादिकभ्रान्तिकारण विगमात्स्पष्टाना कुलप्रतिभासत्वेनाधिकं फलम् । स्वप्नावस्थायामपि कर्मफलसद्भावस्याभिमतत्वादभिक्षुत्वादिदोषो नोद्भावनीयः । शिक्षादत्तकवत् संवरासंवरत्वस्य भगवत्प्रज्ञप्तिवशादेवावस्थाप्यमानत्वादिति । विकल्पबलाद्यदि कर्मणः परिपोषस्तदा प्रतिपक्षविरोधेऽपि विकल्पानुदृत्त्या तथागतस्यापि स्यादित्याह । सचेदायुष्मन् सुभूत इत्यादि । विकल्पयन् क्षयसंज्ञामुत्पादयति क्षौणा मे संसारिणः स्कन्धा इत्यादि क्षयसंज्ञां करोति । तस्यापि कर्मण इति क्लेशप्रहाणकारिणो मनस्कारस्य कर्मणः स्वरूपोपचयादाच्चयः। कार्यजननसामर्थ्यादुपचयः स्यात् । ततश्चोपचितस्य कर्मणः प्राप्तव्यफलविशेषसद्भावादपरिनिष्पन्न एव तथागतः स्यादिति भावः । विनेयानुरोधेन तथागतस्य क्षौणा मे जातिरित्यादिविकल्पो व्यवस्थापितो न तु तत्त्वत इत्याह । नो हौदमिति (p. 358, 1)। एतदेव समर्थयितुं तत्कस्य हेतोरित्याशङ्क्याह । सर्वकल्पविकल्पेत्यादि । सर्वकल्पा रूपादयः स्वसामान्यलक्षणात्मका निर्विकल्पसविकल्पज्ञानालम्बनस्थानीयास्तेषु विकल्पस्तदुपलम्भस्तेन प्रहौणो रहितो निर्विकल्पधर्मताधिगमादित्यर्थः । आलम्बनोपलम्भमन्तरेण मानसं कर्म चित्तं चान्येषां
४४१