________________
४४.
ऊनविंशपरिवर्तः ।
भावयोर्नानात्वेन विपक्षप्रतिपक्षविकल्पाभ्यां विकल्पयितुमशक्यत्वात् स्वप्नश्च दिवसश्चाविकल्पः समतात्मक इत्युक्तो भगवतेति यावत् । तथा चोक्तम् ।
स्वप्नोपमत्वाधर्माणां भवशान्त्योरकल्पना। इति ननु सर्वधर्माणां स्वप्नसदृशत्वे सति दशकुशलादीनामभावः स्वप्नावस्थायामिव जाग्रहशायामपि स्यादित्याह । यत्पनरायुष्मन् सुभूते स्त्री वेत्यादि (p. 357, 4)। किमिति क्षेपाभिधायित्वान्नैवेत्यर्थः। स्वरूपोपचयादाचयः। कार्यजननसामर्थ्यादपचयः । तदस्वप्नतुल्यत्वेन प्रयोगादौनामभावाहिवसेऽपि शुभाशुभकर्मणोऽभावः स्यादिति भावः। परमार्थतो नैवाचयोपचयावित्याह। यथा स्वप्नोपमा इत्यादि। संस्त्या तु कर्मफलसम्बन्धस्याभौष्टत्वात् मिद्धेनोपहतं चित्तं स्वप्ने तेनासमं फल मिति दृष्टान्तासिद्धिः स्यादित्याह। अथ पुनरायुष्मन्नित्यादि। तस्य कर्मण इति स्वप्नावस्थाभाविनः। एतदेव स्पष्टयन्नाह। कथञ्चेत्यादि । तत्र प्रयोगादिनिष्यादनात् कायवाञ्चित्तोपघातादाऽहो हतः साधु हतः सुष्ठ हतः सर्वचात्मव्यापारोपलम्भान्मया हत इत्यर्थभेदो वाच्यः। एतदुक्तम्। यथा बाह्यार्थनये क्षणिकतया निर्हेतुकविनाशे कर्मजं लोकवैचियमिति सिद्धान्ताच परमार्थतो न कश्चिन्न केनचिहतो नापि कस्यचिट्रव्यं केनचिह्नहोतमित्याद्युपगमे प्रवृत्तसन्ताननिरुवपदार्थोत्पादनात्मारणाद्यध्यवसायबारेणायोनिशोमनस्कारादिमतोऽकुशलादिवत् प्राणातिपातादयो दिवसे व्यवस्थाप्यन्ते, तथा स्वप्नेऽप्युपचितकुशलाकुशलस्य प्रबुद्धावस्थायामहो हत इत्यादिविकल्पेन प्रयोगावस्थाद्यभि