________________
अभिसमयालवारालोकः ।
४३६
परिजयं करोत्येवं परमार्थेन प्रहाणं संस्त्या चारहाणमिदमुपायकौशलगाम्भीर्यमिति । तदेवमचिन्त्यविमोक्षमुखलाभात्, परस्परविरुद्धार्थानुष्ठानेनोत्पादाद्यष्टविधगाम्भौर्यमधिगमानुरूपव्यवहारप्रवर्तनात्, षोडशक्षणवत् भावनामार्गस्थावैवर्तिकलक्षणं ग्राह्यम् । तथा चोक्तम् ।
उत्पादे च निरोधे च तथतायां गभीरता। ज्ञेये ज्ञाने च चर्यायामहयोपायकौशले॥५८ ॥ इति अवैवर्तिकलक्षणकथनेन शैक्षो बोधिसत्त्वसवोऽभिहितः तदनु संक्लेशव्यवदानविकल्पप्रहाणेन तदुभयसमताधिगमादशैक्षो भवति, परेण शिक्षितव्याभावात् अतोऽशैक्षसङ्घलक्षणपरिदीपनाय संसारनिर्वाणसमता वक्तव्येत्याह । य आयुष्मन् सुभूते बोधिसत्त्व इत्यादि। अपिनुशब्दः किंशब्दार्थे प्रश्ने वर्तते। किं प्रज्ञापारमिता विवर्धते । रद्धिमुपयातीत्यर्थः । नैव विवर्धत इत्याह। सचेदित्यादि। अत्र संसारव्यवदानाविकल्पज्ञानं यथाक्रमं स्वप्नादिवसाभिसन्धिनोक्तम्। अभिप्रायस्त्वेवं लक्ष्यते। यदि विपक्षप्रतिपक्षविकल्पग्रहाणमधिकृत्य तदभयसमतावगमाद्यथा दिवसगतस्य भावनाद्धिः, तदा तथा स्वप्नान्तरगतस्यापि विवर्धेत यावता यथा दिवसे न विवर्धेत तथा स्वप्ने पौति। एतदेव स्पष्टयितुं तत्कस्य हेतोरित्याशझ्याह । अविकल्प्यो होत्यादि। यदि दिवसे चरतः प्रज्ञापारमिता विवर्धेत तदाभ्याससामर्थ्यात् स्वप्नेऽपि विपुलता स्याद्यावता नैव, यस्मात्सांसारिक-वैयवदानिकधर्माणां प्रतिभासमाचस्वभावस्वप्नसदृशत्वेनावगमात्संसारनिर्वाणयोः स्वप्नदिवसस्व