________________
ऊनविंशपरिवर्तः।
चरन्ति, तस्माधर्मतया सर्वचाचरणमेव चरणमिदं चर्यागाम्भौर्यमिति । अद्दयगाम्भीर्यार्थमाह । यः सुभूते बोधिसत्त्व इत्यादि। क्व चरतौति कस्मिन् विषयेऽनुतिष्ठति । परमार्थ इति । निमित्तानिमित्तद्दयसमुदाचाराभावाधर्मधातौ चरत्येवमहयगाम्भीर्य स्यादिति भावः । तदेव स्पष्टयन्नाह । तत् किं मन्यसे सुभूते यो बोधिसत्त्वो महासत्त्व परमार्थे चरति स निमित्ते चरति (p. 356, 2)। नो हौदमिति। निमित्तानिमित्तसज्ञाप्रतिषेधाद्भावाभावाभिनिवेशलक्षणे निमित्ते नैव चरति । उपायकौशलगाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूतेऽपि नु तस्य निमित्तमविभावितमिति। अविभावितमप्रहौणमत्यक्तमिति यावत्। नो हौदमिति। सर्वधर्मानुपलम्भबलान्नैव निमित्तमविनष्टमस्ति। यद्येवं तर्हि निमित्तं प्रहोणमिति चेदाह। तत् किं मन्यसे सुभूतेऽपि नु बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो निमित्तं विभावितं भवतीति। प्रहाणे यत्नाभावान्नैव निमित्तं प्रहौणमित्याह। न स भगवन्नित्यादि। बोधिसत्त्वचयां चरन्निहैव प्रत्युत्पन्ने जन्मनि कथमहं निमित्तग्रहाणमनुप्राप्नुयामिति नैवं बोधिसत्त्वो घटते व्यायच्छत इति यावत्। तत्पहाणे च को दोष इत्याह। सचेत्पुनरित्यादि। कथमेकस्य प्रहाणाप्रहाणे चेत्याह। एतद्भगवन्नित्यादि। एतद्रपं संवत्या मायोपमं यल्लक्षणं यल्वरूपं यन्निमित्तं यद्धेतुकं रूपादि जानाति। तत्त्वतोऽनुत्पन्नत्वादानिमित्ते च धर्मधातौ