SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । ४३७ तत् किं मन्यसे सुभूते गम्भौरा तथतेति । गम्भौरा भगवन्निति। रूपादिपदार्थावगमेऽपि तदव्यतिरिक्ता साक्षात्कर्तुमशक्यत्वात्तथता गम्भौरा दुर्बोधेति यावत् । ज्ञेयगाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूते तथतायाञ्चित्तमिति। तथतायामाधारभावस्याविद्यमानत्वादाह । नो हौदमिति। तथताऽव्यतिरिक्तं तर्हि चित्तं स्यादित्याह। तत् किं मन्यसे सुभूते चित्तं तथतेति । नो हौदमिति । संतिपरमार्थयोः परस्परपरिहाराच्चित्तं तथता नैव । अर्थादन्यचित्तं तथतायाः सकाशादिति चेदाह । तत् किं मन्यसे सुभूतेऽन्यत्तथतायाश्चित्तमिति । ___ धर्मधातुविनिर्मुक्तो यस्माद्धर्मो न विद्यते । इत्यभिप्रायवानाह। नो हौदमिति। एतदक्तम्। तथतातो न व्यतिरिक्तं नाप्यव्यतिरिक्तं चित्तमात्रमिदं सर्वं वस्तु ज्ञेयगाम्भौर्यमिति। ज्ञानगाम्भीर्यार्थमाह। समनुपश्यसि त्वं सुभूते तथतामिति। नो हौदमिति । तथतास्वभावत्वात्तथतां तत्त्वतो न पश्यामि। अतोऽदर्शनमेव दर्शनं ज्ञानगाम्भीर्यमिति मतिः। चर्यागाम्भीर्यार्थमाह। तत् किं मन्यसे सुभूते य एवं चरति स गम्भौरे चरतीति । एवमिति । तथतारूपेण । तत्त्वेन नैव कचिच्चरतीत्याह। यो भगवन्नेवं चरति स न क्वचिच्चरतीति। एतदेव स्पष्टयन् तत्कस्य हेतोरित्याशङ्याह। तथा होत्यादि। एतदुक्तम् । यस्मात्तथतायां स्थितस्य तेऽनुस्थानविशेषाः समुदाचारास्ताविकहेतुफलाभावाद्यथाक्रमं न प्रवर्तन्ते, न समुदा
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy