________________
४३४
ऊनविंशपरिवर्तः। प्रत्येकमनभिसम्बोधियुगपदुत्पन्नस्तमुभिसम्बुध्यत इति चेदाह। न च तैश्चित्तोत्पादैरिति (p. 353, 3)। युगपदुत्पन्नरपि बहुभिश्चित्तक्षणैर्नाभिसम्बध्यते। एकविज्ञानसन्ततयः सत्त्वा इति वचनादसंभवित्वेनेति भावः। अन्यथा तर्हि बुध्यत इति चेदाह। न चान्यत्र तेभ्यश्चित्तोत्पादेभ्योऽभिसंबुध्यत इति। यथोक्तचित्तव्यतिरेकेण चित्तान्तरेण नाभिसम्बध्यते, असंभवात् सर्वथा तर्हि बोध्यसम्भवः स्यादित्याह। अभिसम्बध्यते चेत्यादि। पूर्वापरीभूतक्षणयोरेकविषयोपयोगज्ञापनपरेण दौपदृष्टान्तन्यायेन बोधिनिष्यादककतिपयपदार्थप्रतिभासि प्रथम विज्ञानं पूर्ववत्प्रतीत्य तत्पतिभासाभ्यधिकविशिष्टार्थप्रतिभासिपश्चिमविज्ञानोदयादाभ्यां चित्तोत्पादाभ्यामभिसम्बध्यते। बोधिसत्त्वोऽनुत्तरां बोधिमित्यर्थः । यथोक्तेनैव च दीपदृष्टान्तेनाष्टप्रकारा गम्भौरधर्मता प्रतिसर्तव्या। तथा चोक्तम्।
पूर्वेण बोधिनों युक्ता मनसा पश्चिमेन वा।
दौपदृष्टान्तयोगेन गम्भौरा धर्मताष्टधा ॥५८॥ इति। प्रसङ्गागतं निर्दिश्येदानौं भावनामार्गस्थबोधिसत्त्वानामवैवर्तिकलक्षणकथनाय यस्मिन् विषयेऽष्टविधगाम्भीर्य तदक्तव्यमित्युत्यादगाम्भौर्यं तावत्कथयन्नाह। गम्भौरोऽयं भगवन्नित्यादि। अभिसंबुध्यते चेत्यादिना संरत्या क्षणहयेन बोध्यधिगमोऽभ्युपगतः। सोऽपि न युक्त इत्याह । तत्किं मन्यस इत्यादि। यश्चित्तं प्रथमक्षणवर्ति निरुवमपि नु तत्किं द्वितीयक्षणे संवृत्या पुनरुत्पत्स्यते, यतः क्षणहयेन बोधिर्युक्ता स्यात्। निरवयवविनष्टस्य पुनरुत्पादासम्भवा