________________
. अभिसमयालयारालोकः ।
४३३
पश्चिमेनैव दौपक्षणेन तईि दग्धेति चेदाह। न च प्रथमाभिनिपातमनागम्यार्चिषा सा वर्तिर्दग्धेति। अपि तु प्रथमं दीपक्षणमपेक्ष्यार्चिषा पश्चिमेन सा वर्तिर्दग्धा । प्रथमक्षणमन्तरेण पश्चिमक्षणासम्भवात्। प्रथमक्षणवत्पश्चिमक्षणस्यापि नय इत्याह । न च भगवन्नित्यादि। द्वितीयेऽपि विशिष्टचालावोरुत्पत्तिक्षणे प्रथमक्षणमन्तरेण नित्यसत्त्वादिप्रसङ्गतया संस्त्युत्पादाभावात्कार्यकारणलक्षणदाह्यदाहकभावविरहे पश्चिमाभिनिपातेनार्चिषा न सा वर्तिर्दग्धा। प्रथमेनैव तर्हि दीपक्षणेन दग्धेति चेदाह । न च पश्चिमेत्यादि। अपि तु पश्चिमं दौपक्षणमपेक्ष्यार्चिषा पूर्वेण वर्तिर्दग्धा। पश्चिमक्षणमन्तरेण प्रथमक्षणस्य दाहे सामर्थ्यात्। प्रत्येकमसामर्थ्यर्थािदभयोरभ्युपगतसामर्थ्यस्याहत्यप्रतिपादनार्थं पुनरपि प्रश्नयन्नाह । तत्किं मन्यसे सुभूतेऽपि नु सा वर्त्तिर्दग्धेति । अभ्युपगतार्थस्यान्यथाकर्तुमशक्यत्वादाह । दग्धा भगवन्नित्यादि । यदि नाम पूर्वोत्तरक्षणयोर्यथाक्रमं तुल्यकालनिरन्वयविनाशोदयात् परस्परासंसृष्टत्वं, तथापि यदा संहतविशिष्टोत्पन्नं प्रथमदीपवर्तिक्षणमिदं प्रत्ययतात्मकप्रतीत्यसमुत्पादधर्मतया समपेक्ष्याविचारैकरम्यत्वेन हेतुफलसम्बन्धबलात्तदाहितसामर्थ्यातिशय एव विशिष्टो द्वितीयदीपवर्तिक्षणः स्यात् , तदा निर्हेतुकविनाशेऽपि कार्यकारणलक्षणदाह्यदाहकभावसद्भावात् प्रथमपश्चिमक्षणाभ्यां वर्तिर्दग्धेत्यर्थः। अनन्तरम) प्रकृतार्थेन योजयनाह। एवमेव सुभूत इत्यादि। सुबोधम्। पूर्वापरौभूताभ्यां