________________
४३२
४३२
ऊनविंशपरिवतः संस्त्याप्यर्थक्रियाविशिष्टार्थप्रतिभासिचित्तजननहारेण न घटत इत्याशङ्कयन्नाह। किं पुनर्भगवन्नित्यादि (p. 352, 2)। एकैकस्मिंश्चित्ते पूर्वापरीभूते बुद्धबोधिनिष्यादकसर्वाकारज्ञतादिसमस्तार्थाप्रतिभासनानैवैकैकेन प्रथमेन चित्तोत्पादेन पश्चिमेन वा बोधिमभिसंबुध्यते बोधिसत्त्व इत्यर्थः । एकविज्ञानसन्ततयः सत्त्वा इति वचनादसम्भवित्वेन किं युगपदत्पन्नसमौहितार्थनिष्पादकधर्मप्रतिभासेनानेकचित्तक्षणेन बोधिमभिसम्बुध्यत इति पक्षो नाशंकितः। विदितानुत्तरबुद्धबोधिनिष्यादकधर्मस्वरूपेण क्रमोत्पत्त्युपपन्नपूर्वापरोभूतानेकचित्तक्षणेन बोधिमभिसम्बध्यत इत्ययमपि पक्षो न संगच्छत इत्याह । पौर्वको भगवन्नित्यादि। असमवहित इति । पश्चिमप्रथमयोर्यथाक्रम निरन्वयोदयविनाशेन परस्परमसम्बन्धादसंश्लिष्टः। कथमिति। सम्बन्धाभावाहिशिष्टार्थप्रतिभासिचित्तानुत्पादान्नैव कुशलमूलानामुपचयो भवति। ततो नानुत्तरा सम्यकसंबोधिरिति भावः। पूर्वोक्तपक्षस्यानभिमतत्वात् पश्चिमपक्षे प्रसिद्धदौपदृष्टान्तयोगेन परिहारार्थमाह। तत् किं मन्यस इत्यादि। तैलप्रद्योतस्येति । प्रदीपस्य । प्रथमाभिनिपातेनेति। प्रथमक्षणमौलितेन । नो हौदमिति प्रत्येकमसामर्थ्यादुक्तम्। तदेव स्पष्टयन्नाह। नहि भगवन्नित्यादि। प्रथमे ज्वालाव?ौलनक्षणे हितोयक्षणमन्तरेण स्वकारणपरम्पराक्रमायातसमानकालसंहतोत्पत्त्यविशिष्टत्वात्। कार्यकारणलक्षणदाह्यदाहकभावानुपपत्तौ नार्चिषा प्रथमाभिनिपातेन सा वर्तिर्दग्धा।