SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ अभिसमयालङ्कारालोकः । ४३१ अस्यैवार्थस्य विस्तरेण निर्देशार्थं पुनरपरमित्यादिपञ्चहारकोपादानम् । किं लक्षणा बोधिरित्याह । का पुनरेषेत्यादि (p. 350, 21)। तथतेषेति (p. 351, 1)। तथतास्वरूपामायोपमनिष्प्रपञ्चज्ञानात्मकधर्मकायादिमयतथागतस्वभावेति यावत्। भावनामार्गोऽपि तथतास्वभाव एवेत्यभिप्रायः। तथा चोक्तम् । तथतालक्षणा बोधिः सोऽपि तल्लक्षणो मतः॥४७॥ इति। न च सुभूते तथता विवर्धते वा परिहीयते वा तत्वरूपत्वात्तथा बोधिमार्गावपौति शेषः। एवं हि हेतुफलयोः फलहेत्वर्थापरस्परस्वभावानुविधानाद्धेतुफलसम्बन्धावैपरौत्यमुद्भावितं स्यात् । पुनरपि संवृत्या मार्गस्य सामर्थ्यमावेदयन्नाह। सचेद्दोधिसत्त्व इत्यादि। तत्प्रतिसंयुक्तरिति। भावनामार्गप्रतिबद्धैः। अभीक्ष्णं बहुलमिति । प्रयोगपृष्ठावस्थाभेदेन हयोपादानम् । मौलावस्थायां तन्मयत्वेन विहरणानुपपत्तेः। एवमिति। तथारूपेण। उपसंहरन्नाह। एवं खलु सुभूत इत्यादि। अर्थस्येति । भावनामार्गस्य ॥ अभिसमयालङ्कारालोकायां प्रज्ञापारमिताव्याख्यायां शून्यतापरिवर्तो नामाष्टादशः ॥
SR No.010445
Book TitlePrajnaparamitas 01
Original Sutra AuthorN/A
AuthorGieuseppe Tucci
PublisherOriental Research Institute Vadodra
Publication Year1932
Total Pages677
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy