________________
४३०
अष्टादशपरिवर्तः ।
भावनासंज्ञकेन मार्गेण नैव किञ्चिदधिमावादि नवविधं विकल्पजातं परित्यक्तं, नापि किञ्चिन्मदमृद्दादिनवप्रकारं मार्गजातं प्राप्तम्। अतोऽनुपन्यसनीय एवेत्यभिप्रायेणानिष्टमापादयन्नाह। सचेद्भगवन्नित्यादि। अनभिलप्यस्येति। भावनामार्गस्य तत्प्रभेदत्वादेव दानादौनामपि हानिड्यभाव इत्यादि। दानपारमिताया अपौत्यादि। भवत्वेवं को दोष इति चेदाह। सचेद्भगवन्नित्यादि। कथमिति क्षेपेणेवेत्यर्थः। उपचयार्थमाह। न च भगवन्नित्यादि। तथा चोक्तम् ।
हानिड्डौ न युज्यते निरालापस्य वस्तुनः । भावनाख्येन किं होनं वर्त्मना किमुदागतम्॥५६॥ इति।
परमार्थतोऽनिष्टापादनमपि न भवतीत्याह। एवमेतदित्यादि (p. 349, 1)। संवृत्या तु यथानुत्तरा सम्यक्संबोधिस्तथा भावनामार्गोऽर्थक्रियाकारोति कथयन्नाह । अपि तु खलु पुनरित्यादि, नैवं भवतीति। दानपारमिता विवर्धते वा परिहीयते वेति वस्तुपलभयोगेनैवञ्चित्तमुत्पद्यते। यथानुत्तरेति । यथाधिपत्यमात्रेण निरतिशयाधानाऽनुत्तरा सम्यकसम्बोधिर्विनेयानां पुण्यज्ञानानुरूपतया विशिष्टार्थप्रतिभासिचित्तजननहारेण परिणामितपुण्यवर्धनात्संरत्याभिमतार्थस्य साधिका तथा परिणामयतीत्यर्थः। तददयमप्यागन्तुकमलापगमाद्भावनया साक्षात्कृतो भावनामार्गो मायोपमत्वानिरतिशयाधानो यथासंहत्या विपक्षप्रतिपक्षयोरपगमोदयक्रमेणार्थक्रियाकारी तथोपन्यस्यत इति मतिः। तथा चोक्तम् ।
यथा बोधिस्तथैवासाविष्टस्यार्थस्य साधकः । इति ।