________________
अभिसमयालङ्कारालोकः।
१२६ एषामित्यसंख्येयादौनाम्। संवृत्या त्वनालम्बनमहाकरुणास्वभावधर्मधातुनिःष्यन्दभूतास्ते देशनाधर्मस्वभावा यथोक्तनिर्देशा बालजनानां महाफलोदयप्रकाशकत्वेनाभिमतास्तथागतस्येत्याह। अभिलापा इत्यादि। एत इत्यसंख्येयादयः। देशनाभिनिरनिर्देश इति। देशनाsभिनिर्हियते जन्यतेऽनेनेति देशनाभिनिर्हारो धर्मकायस्तस्योद्भावनासंकृत्या निर्देश इति विग्रहः ।
तथा चोक्तम् । असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः । कृपानिष्यन्दभूतास्ते संस्त्याभिमता मुनेः ॥५५॥ इति। तथागतस्य करुणानिष्यन्दनिर्देशत्वादेतैः सर्वविषयैभवितव्यमित्याह । आश्चर्यमित्यादि (p 348, 1)। याववचनादप्रमेयतादिपरिग्रहः। सर्वधर्माणामिति । प्रथमादिनवप्रकाराणां धर्मतेति निर्वाणरूपता, व्यञ्जनार्थयोभैदानुपलम्भादनभिलाप्या। भाषितस्येत्यनन्तरनिर्देशस्य । तथा सर्वधर्मा इति। रूपादयः। साधूक्तत्वादेवमेतदित्याद्यनूध पूर्ववत् । तत्कस्य हेतोरित्याशङ्ख्याह। या सुभूत इत्यादि। सर्वधर्माणां शून्यतेति। ज्ञेयत्वादिभेदान्तरप्रतिक्षेपेण शून्यतेत्युक्ता। ततः शून्याः सर्वधर्मा एवाभिलपितुं न शक्या इत्यर्थः। ननु निःस्वभावतया तत्त्वान्यत्वाभ्यामवाच्यस्य परमार्थतो धर्मतास्वरूपस्याभिमतमार्गवस्तुनो विपक्षप्रतिपक्षयोर्थथाक्रममपगमोदयौ न युज्यते। सर्वथातिशयाधानाभावादित्याह । किं पुनभगवन्नित्यादि। नो हौदं सुभूत इत्यादि। यद्येवं