________________
४२८
अष्टादशपरिवर्तः ।
(p. 347, 1)। येनेति। धर्मधातुस्वभावात्मकेनेति । परमार्थतः शून्यतालक्षणोऽपि विकल्पप्रतिपक्षयोर्भेदादनागम्य ध्यानान्तरादिनवभूमिषु महोपायकौशलबलेन वा कामधात्वादिनवभूमिषु यथासंख्यं यथोक्तनवप्रकारः प्रबन्धेन प्रवर्तमानो भावनामार्गोऽवसातव्यः। तथा चोक्तम् । प्राबन्धिकत्वादिष्टोऽसौ नवधा च प्रकारतः। मृदमध्याधिमात्राणां पुनर्मदादिभेदतः ॥५४ ॥ इति
नन्वेकैकमेव प्रकारमधिकृत्य भिन्नार्थासंख्येयाप्रमाणपुण्यप्रसवकार्यवचनस्य प्रयोगेण कारणानामपि बहुधा भेदात्कथं नवप्रकारो भावनापथ इत्यभिप्रायवानाह । कस्य पुनरित्यादि। परिहरन्नाह । शून्यताया इत्यादि। त्रिविमोक्षमुखस्वभावभावनामार्गप्रकारस्येत्यर्थः। प्रकर्षपर्यन्तवर्तित्वानवमप्रकारस्यैवाधिवचनमित्यवगमादाह । किं शून्यताया इत्यादि। नान्येषामिति । अतोऽन्येषां सर्वधर्माणां प्रथमादिप्रकाराणां किन्नाधिवचनम् । तदचनेन परिहर्तुमाह । तत्किं मन्यस इत्यादि। सर्वधर्मा इति प्रथमादिप्रकाराः शून्या एवेति न्यायस्य सर्वच तुल्यत्वात्त्रिविमोक्षमुखस्वभावाः। सर्व एव प्रकारास्तथागतेनाख्याताः। सर्वप्रकाराणां शून्यतादिवचनमिति प्रतिपाद्य पर्यायार्थमाह। ये च सुभूत इत्यादि। अप्रमेयतापौति। अपिशब्दादसंख्येयतादयः। यस्मादसंख्येयाप्रमेयादिनिर्देशा वागभिलापस्वभावा व्यारत्त्यपेक्षोपजनितनानात्वरूपेणैकस्मिन्नर्थे प्रयुक्तास्तस्मात्परमार्थेन यथोक्तलक्षणस्य भावनामार्गस्य भेदं कर्तुं न क्षमा इत्याह। तस्मात्तीत्यादि।