________________
अभिसमयालङ्कारालोकः ।
४२७
निर्याणप्रतिपत्तिभिर्यथाक्रम शून्यक इत्यादिपदचतुष्टयमित्यन्ये। मृदुमृदुविकल्यं कथयन्नाह । यथा यथा खलु पुनरित्यादि। यथा यथेति । येन येनाध्यात्मादिशून्यताद्याकारेण बोधिसत्त्वो महासत्त्व इत्यनन्तरं संख्येयप्रमेयाद्यधिगमसंगृहीत इति शेषः। एवं धर्मानिति। मायोपमान्। अधिमात्राधिमात्रमार्गार्थमाह। यथा च यथा च सुभूते बोधिसत्त्व इत्यादि। सर्वविकल्पबीजविगमादप्रमेयमसंख्येयं पुण्यं प्रसवति। अप्रमेयमित्यनेनाप्रमाणमप्याक्षिप्तम्। कोऽर्थभेद इति प्रश्नयन्नाह। अप्रमेयस्य चेत्यादि। किं नानाकरणमिति। किं उपलक्षणं किं सामान्यलक्षणमितियावत्। कः प्रतिविशेष इति । किं स्वभावलक्षणं किं स्वलक्षणमित्यर्थः। मामान्यलक्षणार्थमाह। अप्रमेयमित्यादि। यत्र प्रमाणान्युपरमन्त इति । यस्मिन् पुण्यविषये प्रत्यक्षेण विषयोकर्तुमनुमानेन च मातुमशक्यत्वात्प्रत्यक्षानुमानप्रमाणानि न प्रवर्तन्ते, तदप्रमेयमप्रमाणम्। अनेनाधिगमस्यासंस्कृतत्वं विभुत्वञ्च ज्ञापितमिति केचित्। यन्न शक्यं संख्यया क्षपयितुमिति। अविद्यमानसंख्यत्वेन यत्पुण्यं संख्यया निष्ठापयितुमशक्यं तदसंख्येयम्। अनेन तस्य समताधिगमो ज्ञापित इत्येके । स्वभावलक्षणार्थमाह । स्याद्भगवन्नित्यादि। पर्यायः प्रभेदः। यदित्यव्ययत्वाद्येनेत्यर्थः । अप्रमेयमित्यसंख्येयाद्यपलक्षणम् । साधूक्तत्वेन तद्दचनमनुवदन्नाह। यत्सुभूतिरेवमिहेत्यादि। एवमनूद्य प्रतिपादयन्नाह । स्यात्सुभूत इत्यादि