________________
४२६
अष्टादशपरिवर्तः ।
मितोक्तेन परिणामेनेति विशेषो वक्ष्यते । अयमेव धर्मदानपूर्वकोपलम्भपरिणामो मध्यमृदुविकल्पो वक्ष्यमाणपरिणामापेक्षया स्यात् । मध्याधिमात्रमार्गार्थमाह । पुनरपरमित्यादि । प्रज्ञापारमितोक्तेनेति । सर्वधर्मानुपलम्भयोगेन । तत इत्युपलम्भयोगेन परिणामयितुः सकाशात् । मृद्दधिमाचविकल्पं निर्दिशन्नाह । पुनरपरमित्यादि । प्रतिसंलाने पुनरेव योगमापद्यत इति । परिणामोत्तरकालं प्रज्ञापारमिताविहारे चित्तसमाधानतां कुर्यात् । कुर्यात् । अधिमात्रमृदुमार्गार्थमाह । यश्व खलु पुनरित्यादि । प्रतिसंलाने पुनरेव योगमापद्येतेति (p. 346, 2 ) । भूयोऽपि मनसिकुर्यात् । एतदेव स्पष्टयन्नाह । प्रतिसंलाने च पुनरेव योगामापद्यमान इत्यादि । मृदुमध्य विकल्पं वक्तुमाह । यदा भगवन्नभिसंस्कार (p. 346, 6) इत्यादि । अभिसंस्कारश्चित्ताभोगो विकल्पो विपर्यासो यदा कथं विकल्प बौजानुगमात्तदा बहुतरं पुण्यं परिणामनाकाले प्रसवतीत्युच्यते विकल्पस्यापि मायोपमत्वेनानुगमादविपर्यासप्रवृत्तत्वेन संवृत्या बहुतरं पुण्यमिति परिहरन्नधिमाचमध्यमार्गार्थमाह । सोऽपौदानीमित्यादि । स इत्यभिसंस्कारप्रभवः पुण्यराशिः । इदानीमिति । अष्टमप्रकार भावनामार्गावस्थायाम्। न तु पूर्वं तच विपर्यासप्रभवत्वात् । अध्यात्मबहिर्धोभयशून्यताभिः शून्यकः । शून्यमहापरमार्थशून्यताबलाद्रिक्तः । संस्कृतासंस्कृतात्यन्तानवराग्रानवकारशून्यताभिस्तुच्छकः । प्रकृतिशून्यतादिभिर्नवप्रकारैरसारकः । सन्नाहप्रस्थानसम्भार