________________
अभिसमयालङ्कारालोकः।
___४२५
महातमोघातवच्चेत्याचार्यवसुबन्धः। तवान्यापदेशेनोत्तरोत्तरपुण्याधिकत्वप्रतिपादनात्। प्रतिपक्षप्रभेदमभिभूय मानपुण्यवचनेन च विपक्षप्रभेदं निर्दिशन् विकल्पक्लेशा बोधिसत्त्वा इति कृत्वाऽधिमात्राधिमात्रविकल्पप्रकारं वक्तमाह। यश्च प्रज्ञापारमिताविरहित इत्यादि। मृमृदमार्गार्थमाह । अयमेव तत इत्यादि। तत इति दानं दातुः सकाशादिशिष्यत इति। असंख्येयाप्रमेयाप्रमाणपुण्यपरिग्रहादिशिष्टतरः। अधिमात्रमध्यविकल्पं कथयन्नाह । पुनरपरमित्यादि। दद्यात्प्रतिष्ठापयेदिति । निर्यातयेचिरस्थितिकच्च कुर्यादित्यर्थः। मृदमध्यमार्गार्थमाह। यश्च बोधिसत्त्व इत्यादि। बहुतरमित्यसंख्येयादिस्वभावम् । अधिमात्रमविकल्पं प्रतिपादयन्नाह । पुनरपरमित्यादि। यावद्दचनादनागामिप्रभृतीनां ग्रहणम् । अणुमात्रभयदर्शित्वेन शोलेषु च परिपूर्णकारी। मृदधिमात्रमार्गार्थमाह। यश्च बोधिसत्त्व इत्यादि (p. 345 3) । ततो मनसिकारादिति। प्रज्ञापारमिताभावनातः । मध्याधिमात्रविकल्पं ख्यापयन्नाह। पुनरपरमित्यादि। शान्त्या च समन्वागत इति। परापकारमर्षणादिक्षान्त्या युक्तः। मध्यमृदमार्गार्थमाह। यश्चेत्यादि। धर्मदानमिति सम्यगर्पणम् । अत एव धर्म देशयेदिति पूर्वस्मादिदं विशिष्यते। मध्यमध्यविकल्पमावेदयन्नाह। पुनरपरमित्यादि। उत्तप्तवीर्यत्वादारब्धवीर्यः। मध्यमध्यमार्गार्थमाह। यश्च खलु पुनरित्यादि। परिणामयेदिति । उपलम्भदृष्ट्या निर्यातयेत्। अत एवानन्तरं प्रज्ञापार