________________
४२४
अछादशपरिवर्तः ।
विष्कम्भणादिपृष्ठौकरोति। अपूर्वस्यानुत्पादनेन संसाराजन्मप्रबन्धतो व्यन्तौकरोति । तदेवमप्रमाणकुशलसम्परिग्रहादपरिमितकल्यानां छोरणपृष्ठीकरणव्यन्तीकरणक्षणस्त्रिविधोऽनुशंसो भावनामार्गकारिवज्ञापनार्थ कथितः स्यात्। य इहेत्यादि। निर्वेधभागीयाधिकारेण यथाज्ञप्तं तिष्ठति। दर्शनमार्गाधिकारेण यथाख्यातं शिक्षते । मृदमध्याधिमावभावनामार्गाधिकारेण यथोपदिष्टं यथानिर्दिष्टं प्रतिपद्यते, उपनिध्यायति, योगमापद्यत इति सम्बन्धः। उपसंहरनाह। एवं सुभूते बोधिसत्त्व इत्यादि (p. 344, 1)। एकदिवसेन तावत्कर्म करोतीत्यनन्तरं जन्मप्रबन्धतोऽपरिमितकल्यान् यावता परित्यजतीति शेषः । भावनामार्गस्येदानौं प्रकारभेदो द्रष्टव्यः। त्रयो हि मूलप्रकारा मृदुमध्याधिमात्रास्तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रभेदे क्रियमाणे नवप्रकारा भवन्ति। यथा प्रतिपक्षस्यैवं विपक्षस्यापि नवप्रकारा वेदितव्याः। तत्र च मृदमृदना मार्गेणाधिमात्राधिमात्रविकल्पस्य प्रहाणं यावदधिमात्राधिमात्रेण मृदुमृविकल्पस्येति ग्राह्यम्। आदितएवाधिमात्रमार्गासम्भवादत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशाभावात् । यथौदारिको मलश्चैलात्पूर्व निर्धूयते पश्चात् सूक्ष्मः। यथौदारिकञ्च तमः सूक्ष्मेणालोकेन हन्यते, सूक्ष्मञ्चाधिमात्रेण, शुक्लाश्च धर्मा बलवन्तो दुर्बलास्तु कृष्णाः, क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरम्पराप्यायितानामधिमात्रक्लेशानामुन्मलनात्। बहुकालसंवर्धितदोषाणां विवृत्कर्षनिष्कर्षणवत्, क्षणिकाल्पप्रदीप