________________
अभिसमयालङ्कारालोकः।
४२३
४२३
त्तव्यम्। यथा भावनामार्गाधिकारेण प्रज्ञापारमितायामुपदिष्टमिति वाच्यम्। तथा चोक्तम्।
चिन्तातुलननिध्यानान्यभौक्ष्णं भावनापथः । निर्वेधाङ्गेषु दृङ्मार्गे भावनामार्ग एव च ॥५३॥ इति अत एव चत्वारि निर्वेधभागीयानि, दर्शनभावनामागौं चाधिकृत्य, तथा सम्पादयमानस्तथोपनिध्यायंस्तथोपपरीक्षमाणस्तथा प्रयुज्यमानस्तथा घटमानस्तथा व्यायच्छमान इति पट्पदानि भवन्ति । कथं भावनामार्गस्य स एव विषयः। प्राबन्धिकत्वात्पर्वपूर्वस्योत्तरोत्तर इत्यदोषः। भावनामार्गानुशंसाएं प्रश्नयन्नाह । अयमित्यादि (p. 343, 3)। यो बोधिसत्त्वश्चिन्तादिप्रयुक्तः सम्यगेकदिवसमप्यत्र भावनामार्गे योगमापद्यते सोऽयं तेनैकदिवसेन कियत्पुण्यं करोति। परिहारार्थमाह । तद्यथेत्यादि। न्यूनेऽपि विषयेऽधिकरागत्वाद्रागचरितः । रागविकल्पबाहुल्यादितर्कचरितः। समुदायावयवशोभत्वाद्यथाक्रमं योषिदभिरूपा प्रासादिका। दृष्ट्यनुकूलत्वेन दर्शनौया। अस्मिन् स्थाने त्वया गन्तव्यमित्यभिधानं सोतः। न वशयेदिति। न लभतेत्येके। न पश्येदित्यपरः। आदिमध्यपर्यवसानेषु स्वाभिमतसुरतानुकूलव्यापारनिर्वर्तनाद्यथासंख्यमेवं करिष्यामि। एवं रमिष्यामि । एवं कौडिष्यामि। सर्वच यथेष्टप्रवर्तनादेवं प्रविचारयिष्यामीति योज्यम् । इयत इति रागचरितपुरुषवितर्कसंख्या नित्यर्थः। कर्मणः क्षयाच्छोरयति ।