________________
४२२
अष्टादशपरिवर्तः ।
त्यपवादान्तः प्रतिक्षिप्तः। उपसंहरन्नाह। यत्र सुभूते न रूपमित्यादि। आश्चर्यमिति । एकस्यैव युगपदर्थदयकथनाहिस्मयः। यावद्दचनेनाभिनिवेशप्रतिषेधानभिनिवेशविधानादिपरिग्रहः । सूक्ष्मणोपायेनेति। अनुत्लासक्रमेण रूपतश्च निवारितो निर्वाणञ्च सूचितमिति । तथतायां रूपादिप्रतिषेधाद्रपादौ प्रत्तिनिराकरणाय निवारितः। तत्रैव शून्यत्वेनाभ्यासकरणानिर्वाणञ्च कथितं स्यात् । तदयं समासार्थः। शून्यतादिके न रूपादिकं, न ततोऽन्यच्छन्यतादिकमिति । यथाक्रम या समारोपापवादान्तमुक्तता सा शून्यतादेर्गाम्भीर्य शून्यतादिकमिति। गाम्भीर्ययोगाङ्गम्भौरोऽभ्यासपथ इति। तथा चोक्तम् । गम्भौरो भावनामार्गो गाम्भौर्य शून्यतादिकम् । समारोपापवादान्तमुक्तता मा गभौरता॥ ५२ ॥ इति विशेषणं निर्दिश्यैवं विशेष्यभावनामार्गाथमाह। इमानि सुभूत इत्यादि। चिन्तयिष्यतीति। श्रुतमय्या प्रज्ञया । तुलयिष्यतीति चिन्तामय्या। उपनिध्यास्यतीति। भावनामय्या। समाधौ वा प्रयोगमौलपृष्ठभाविन्या प्रज्ञयेति यथाक्रमं योज्यम्। कस्मिन् पुनर्विषये भावनामार्ग इत्याह। एवं मयेत्यादि। तत्र एवं मया स्थातव्यम्। यथा निर्वेधभागीयाधिकारेण प्रज्ञापारमितायामाज्ञप्तम्, एवं मया शिक्षितव्यम्। यथा दर्शनमार्गाधिकारेण प्रज्ञापारमितायामाख्यातम्, एवं मया प्रतिप