________________
अभिसमयालवारालोकः ।
४२१
मित्यर्थः। तत्र ग्राहकविवेकेन शून्यता। ग्राह्याभावादानिमित्तम् । ग्राह्यग्राहकविविक्ताइयज्ञानस्यापि वस्तुसतोऽधिगन्तव्यस्यासत्त्वादप्रणिहितम् । जात्यादिलक्षणचयविसंयोगादनाभोगप्ररत्तत्वादाऽनभिसंस्कारः। हेतोरसत्त्वादनुत्पादः। प्रतिसन्धिविगमादजातिः। दर्शनमार्गविपक्षविरहादभावः। भावनामार्गविपक्षविश्लेषादिरागः। आयत्यां दःखानुत्पत्तिधर्मत्वान्निरोधः। अनिमित्तशान्तसुखविहारपदस्थानत्वानिर्वाणम्। दृष्टधर्मे दःखाप्रचारफलत्वादिगम इत्येवमेषां शून्यतादीनामर्थभेदो वाच्य इत्येके । सर्वैरप्येतैः पदैः व्यात्तिभेदाधर्मधातुरेव निर्दिश्यत इति योज्यम् । सा च शून्यतादीनां गम्भीरता समारोपापवादान्तइयरहिततेति प्रतिपादनार्थ काका प्रश्नयन्नाह। एतेषामेवेत्यादि (p. 342, 1)। भगवन्नित्यनन्तरं किमिति शेषः। परिहारार्थमाह। सर्वधर्माणामित्यादि। तथैव तत्कस्य हेतोरित्याशङ्याह। रूपं होत्यादि। एतदेव कुत इति प्रश्नयन्नाह । कथञ्च सुभूत इत्यादि। परिहरन्नाह। यथा सुभूते तथता तथा गम्भौरं रूपमित्यादि। यथा शून्यता गम्भौरा तथा तत्त्वतोऽनुत्पन्नत्वेन रूपादिकमपि गम्भौरमित्यर्थः। अनेन च तथतायां न रूपादिकमिति समारोपान्तः प्रतिषिद्धः। यथा रूपतथता तथा गम्भौररूपमिति ।
यः प्रतीत्यसमुत्पादः शुन्यता सैव ते मता। इति वचनाद्रूपादितथतैव संवृत्या रूपादिकमविचारैकरम्यमिति यावत् । अनेन च नान्यत्र रूपादिकात्तथते