________________
व्यष्टादशपरिवर्तः ।
1
भावनामार्गस्थावैवर्तिकलक्षणं प्रतिपादयितुं दर्शनमार्गसम्बन्धेन प्रस्तावयन्नाह । अथ खल्वित्यादि (p. 341, 2)। असाधारणधर्मयोगादाश्चर्यम् । यथोक्तक्षान्तिलाभेन दर्शनहेयक्लेशविसंयोगान्महागुणसम्भारसमन्वागतः । यथानिर्दिष्टज्ञानलाभेन दर्शन हेयक्लेशापुनरुत्पत्तेरप्रमाणगुणसमन्वागतः । तदनु सर्वाकारज्ञताभिनिर्हारज्ञानलाभादपरिमितगुणसमन्वागतः । साधूक्तत्वेनैवमेतत् सुभूत एवमेवैतदित्यनुवादस्य निर्युक्तिकत्वात्तत्कस्य हेतोरित्याशङ्क्याह । अविनिवर्तनौयेनेत्यादि । आकारानन्त्यादनन्तं सर्वतो - ऽविषयत्वेनापर्यन्तं सर्वलोकाकम्पत्वेनासंहार्यम् । सम्बन्धमापाद्यैवं प्रकृतार्थमाह । प्रतिबलो भगवानित्यादि । यस्माद्भगवानाकारादिकं निर्देष्टुं प्रतिबलोऽत एव भगभावनामार्गस्थावैवर्तिकलक्षणार्थं गम्भौराणि स्थानानि कथनौयानौत्यर्थः । गम्भौराणि गम्भीराणौति साभिधानं पौनःपुन्याभ्यासमार्गज्ञापनार्थम् । स्थानानौति स्थित्यभिधानम् । यत्र भावनामार्गे स्थित्वा बोधिसत्त्वाश्चत्वारि स्मृत्युपस्थानानि यावदष्टादशावेणिकान् बुद्धधर्मान् परिपूरयेयुः, तस्य निरवशेषाधिगमपरिपूरिकारणत्वज्ञापनेन प्राबन्धिकताख्यापनार्थम् । “नागृहीतविशेषणण विशेष्ये बुद्धिरुत्पद्यत" इति न्यायाद्भावनामार्गं विशेषयन्नाह | साधु साध्वित्यादि । गम्भौराणीति । गम्भीरो भावनामार्ग इत्यर्थः । निगमयितुकाम इति । प्रतिपादयितुकामः । कतमत्पुनरस्य गाम्भीर्यमित्याह । गम्भौरमित्यादि । भावप्रधानोऽयं निर्देशो गाम्भीर्य
वता
४२०