________________
अभिसमयालङ्कारालोकः ।
दाह । नो हौदमिति । हेतुमन्तरेण फलासम्भवात् पश्चिमक्षणव्यापारेऽपि पारम्पर्येण प्रथम क्षणव्यापारोपचारात् क्षणद्दयेन बोधिर्युक्ता न तु संहत्यापि प्रथमक्षणस्य मुख्यतो व्यापार इत्यर्थः । ततश्चेदमुक्तं स्यात् । न पूर्वापरक्षणाभ्यां न च भावनागम्य विशिष्टार्थोत्पादनमिदमुत्पादगाम्भीर्यमिति । निरोधागाम्भीर्यार्थमाह । तत् किं मन्यसे सुभूते यच्चित्तमुत्पन्नमपि नु तन्निरोधधर्मौति । तचोत्पन्नमतौतं विनष्टसत्ताकमिति यावत् । तत्त्वेन निरोधरूपत्वादाह । निरोधधर्मोति । निरोधः शून्यता स एव धर्मोऽस्य विद्यत इति निरोधधर्मि । तथतात्मकमित्यर्थः । तस्य किं fart क्षणे निरोध इत्याह । तत् किं मन्यसे यन्निरोधधर्मि अपि नु तन्निरोत्स्यत इति । उत्पन्नमाचमेव तन्निरोधग्रासतां गतं तत्प्रकृतित्वात् किं पुनर्निरोत्स्यत इत्यभिप्रायादाह । नो हौदं भगवन्निति (p. 354, 1)। अनागतं किं निरोधधर्मोपेतमित्याह । तत्किं मन्यसे सुभूते यचित्तमनुत्पन्नमपि नु तन्निरोधधर्मोौति । नो हौदमिति । भावनिवृत्तिस्वभावत्वादिनाशस्य नैवानुत्पन्नं निरोधधर्मि । तस्य किं निरोधोऽस्ति क्षणान्तर इत्याह । तत् किं मन्यसे सुभूते यन्निरोधधर्मि अपि न तन्निरोत्स्यत इति । नो हौदमिति । प्रथमक्षणाभावेन द्वितीयक्षण निरोधविरहान्नैव क्षणान्तरे निरोत्स्यते । वर्तमानस्य तर्हि निरोध इति चेदाह । तत्किं मन्यसे सुभूते यच्चित्तमनुत्पादानिरोधधर्मि अपि तु तन्निरोत्स्यत इति । वर्तमानमपरोत्पादवैयर्थ्या
४ ३५