________________
अभिसमयालङ्कारालोकः ।
४१५
सत्ययोनिरोधमार्गसत्ययोश्च यथाक्रमं योगानुयोगयोर्वापर्यं ज्ञापितमि"त्यार्यविमुक्तिसेनः। स्कन्धादिषु प्रथमोऽभिनिवेशो योगः। पश्चादत्यन्ताभिनिवेशोऽनुयोग इत्यपरे । निरस्तविपक्षत्वेनाधिगमान्तरायधर्मकथायोगानुयोगविहारप्रतिषेधान्निरोधे धर्मज्ञानमित्याह। न सङ्गणिकेत्यादि (p. 334. 15)। कथाग्रहणेन वस्तुविकल्पस्य दःखसमुदयज्ञानकाल एवोत्सन्नत्वान्निरोधज्ञानस्य कथामावविकल्पप्रतिपक्षत्वमावेदितम् । एताच्चावस्थामधिकृत्योच्यते ।
नाममात्रमिदं सर्व मंज्ञामात्रे प्रतिष्ठितम् ।
अभिधानात्पथग्भतमभिधेयं न विद्यते ॥ इति । परिज्ञातविकल्पदोपत्वेन बोधिसमारभूतदानादिप्रचुरविचित्रधर्मसेनाकथायोगानुयोगविहारप्रतिषेधान्निरोधेऽन्वयज्ञानशान्तिरित्याह। न मेनाकथेत्यादि। तत्र सेना बोधिसम्भारधर्मसमूहः। निरोधज्ञानावस्थायां प्रभृतममुदागमस्योपयुक्ततानेन सूचिता। तथा हि प्रकृतिशून्यतायां स्थितो न कस्यचिद्धर्मस्याल्पत्वं वा बहुत्वं वा ममनुपश्यतीत्यार्यपञ्चविंशतिसाहसिकावचनादित्येके । ग्राह्यग्राहकयोहेयत्वेन विपक्षप्रतिपक्षघात्यघातकयुद्धकथायोगानुयोगविहारप्रतिषेधान्निरोधेऽन्वयज्ञानमित्याह। न युद्धकथेत्यादि। एवंभूतावस्थस्य स्वरसत एव विपाकनिरोधश्चतुर्विधो भवति। यदतेन्द्रियग्रामनिरोधः प्रथमः । तथेन्द्रियाश्रयभूतभौतिकनगरनिरोधो द्वितीयः। तथेन्द्रियविषयनिगमनिरोधस्तृतीयः। यदाह न ग्रामेत्यादि (p. 335, 1)। जनपदादयो निगमप्रभेदाः। आत्माभि